________________
प्रकरणम् ४४] बालमनोरमा-तत्त्वबोधिनीसहिता। ।३०३ (८-२-७३) पदान्तस्य सस्य दः स्यात् तिपि न स्वस्तेः । [संसजुषोरियस्यापवादः] अचकात्, अचकाद् । भचकासुः । २५८५ सिपि धातो रुर्वा । (८-२-७४) पदान्तस्य धातोः सस्य रुः स्याद्वा । पचे दः । भचकाः, अचकात् । शासु १०७५ अनुशिष्टौ । शास्ति । २४८६ शास इदङ्हलोः। (६-४-३४) शास उपधाया इत्स्यादडि हलादौ विकति च। 'शासिवसि-(सू २४१०) इति षः । शिष्टः । शासति । शशास शशासतुः। शास्तु, शिष्टात् शिष्टाम् शासतु। २४८७ शा हो। (६-४-३५) शास्तेः शादेशः स्यादौ परे । तस्याभीयत्वेनाइति षष्ठयन्तमनुवर्तते 'वसुलंसुध्वंस्वनडुहां दः' इत्यतो द इति, तदाह पदान्तस्येत्यादिना । नस्तेः किम् ? 'सलिलं सर्वमा इदम्' । आः इत्यसधातोर्ल. अस्तिपि इकारलोपे 'बहलं छन्दसि' इति 'अस्तिसिचः-' इति ईडभावे हल्ङयादिलोपे रूपम् । प्रकृते तु चकासर्लङस्तिपो हल्ड्यादिलोपे सकारस्य दत्वे 'वाऽवसाने' इति चर्वजश्त्वे इत्यभिप्रेत्याह अचकात् अचकादिति । अचकासुरिति । 'सिजभ्यस्त-'इति जुसिति भावः । सिपि धातो रुर्वा । पदस्येत्यधिकृतम् । 'झला जशोऽन्ते' इत्यतः अन्तै इत्यनुवृत्तम् । 'ससजुषोः-' इत्यतः स इति लुप्तषष्ठीकमनुवर्तते, तदाह पदान्तस्येति पक्ष इति । वसुस्रंस्वित्यतः तदनुवृत्तेरिति भावः । सिपि धातुत्वस्य अव्यभिचाराद्धातोरित्युत्तरार्थम् । अचकासीत् । अचकासिष्यत् । शासुधातुरुदित् सेट् । शास इदङ्हलोः। 'अनिदितां हल:-' इत्यत उपाधायाः क्लिाते इत्यनुवर्तते, तदाह शास उपधाया इति । शासतीति । जनादित्वेन अभ्यस्तत्वाददादेश इति भावः । शास्सि शिष्ठः शिष्ठ । शास्मि शिष्वः शिष्मः । आशास्ते इत्यत्र तु नेत्वम् , अयोग्यस्य परस्मैपदिन एव ग्रहणादिति भाष्ये स्पष्टम् । शशासेति । शशासिय । शासिता । शासिष्यति । शास् हि इति स्थिते आह शाहौ। शा इति लुप्तप्रथमाकम् । 'शास इदङ्-' इत्यतःशास इत्यनुवर्तते, तदाह शास्तेरिति । चकास्ति । सस्येति किम् , वशेर्लकि तिपि अवद । तिपि किम्, किपि चकाः । अनस्तः किम् , सर्वमा इदम् । श्रा इति लछि तिपि अस्ते रूपम् । 'बहुलं छन्दसि' इति ईट् न । शास इदहलोः । अलि-अशिषत् , अशिषताम् । क्ङिति । शिष्टः । शिष्टवान् । शिष्यात् । शिष्यास्ताम् । अङ्साहचर्यात्परस्मैपद एवेत्वम् । नेह, आशास्ते । अन्ये तु यस्माच्छासेरङ् संभवति तस्यैवेत्वमिति व्याख्याय व्यतिशिष्ट व्यतिशिवे इत्यात्मनेपदेऽपि इत्वं खीकुर्वन्ति । शा हो। पूर्वसूत्रे उपधापदान्वयानुरोधेन शास इत्यवयवषष्ठयपि इह स्थानषष्ठयेव, उपधाया इत्यस्य निवृत्तस्वादित्याह शास्तः शादेश इति । 'धि च' इति सलोपेन शाधीति रूपे सिद्धेऽपि
१-अयं पाठः कचिनास्ति ।