________________
३०२ ]
सिद्धान्तकौमुदी ।
[ श्रदादि
दरिद्र्यात् । अदरिद्रीत् । इट्सकौ, अदरिद्रासीत् । चकासृ १०७४ दीप्तौ । स्य अत् । चकासति । चकासांचकार । 'धि च' ( सू २२४६ ) इति सलोपः । सिच एवेत्येके । चकाद्धि । 'चकाधि' इत्येव भाष्यम् | २४८४ तिप्यनस्तेः ।
दरिद्रातु, दरिद्रतात् दरिद्रिताम् दरिद्रतु । दरिद्रिहि, दरिद्रितात् दरिद्रितम् दरिद्रित । दरिद्राणि दरिद्राव दरिद्राम | लाह अदरिद्रादिति । इत्त्वं भत्वाह अदरिद्रतामिति । श्रदरिद्वरिति । जक्षित्यादित्वेन अभ्यस्तत्वाज्जुसिति भावः । अदरिद्राः प्रदरिद्रितम् अदरिद्रित । अदरिद्राम् दरिद्रिव अदरिद्रिम | दरिद्रियादिति । विधिलिङि सार्वधातुकत्वदित्त्वमिति भावः । आशीर्लिङधाह दरिद्र्यादिति । श्रतो लोप इति भावः । लुङि श्रतो लोपपते श्राह श्रद रिद्रीदिति । अदरिद्रिष्टामित्यादि । श्रल्लोपाभावपक्षे त्वाह इट्सकाविति । अदरिद्विष्यत् । चकासृ दीप्ताविति । ऋदित् सेट् । चकास्ति चकास्त इति सिद्धवत्कृत्याह भस्य दिति । जक्षित्यादित्वेन अभ्यस्तत्वादिति भावः । चकासतीति । चकास्ति चकास्थः चकास्थ | चक्रास्मि चकास्वः चकास्मः । चकासांचकारेति । अनेकाच्त्वादामिति भावः । चकासिता । चकासिष्यति । चकास्तु चकास्ताम् चकास | हेर्धिभावे चकास् धि इति स्थिते 'धिव' इति सलोप इति सिद्धान्तः । तत्र मतान्तरमाह सिच एवेत्येक इति । 'धिव' इति लोपः सिच एवेत्येके मन्यन्ते इत्यर्थः । 'धिसकारे सिचो लोपश्चकाद्धी ते प्रयोजनम्' इति वार्तिकादिति तदाशयः । अस्मिन्पक्षे सकारस्य जश्त्वेन दकारः, तदाह चकाद्धीति । एके इत्यस्वरसोद्भावनम् । तद्वीजं तु 'धिसकारे सिचो लोपः' इति वार्तिकं प्रत्याख्याय सकारमात्रस्य 'धि च' इति लोपस्याभ्युपगमः, तदाह चकाधीत्येव भाष्यमिति । चक्रास्तात् चकास्तम् चकास्त । चकासानि चकासाव चकास म । लङि चकास् तू इति स्थिते तिप्यनस्तेः । न श्रस्तिः अनस्तिः, तस्येति विग्रहः । पदस्येत्यधिकृतम् । ‘झलां जशोऽन्ते' इत्यतः अन्ते इत्यनुवर्तते । 'ससजुषो :-' इत्यतः स रिद्रासति । दरिद्रायकः । दरिद्राणम् । अदरिदुरिति । 'सिजभ्यस्त -' इति झेर्जुस् । ‘लङः शाकटायनस्यैव' इत्यादन्तलक्षणो विकल्पस्तु न भवति । परत्वात् ‘श्नाभ्यस्तयोः-' इत्याल्लोपे श्राकारान्तस्यैवाभावात् । 'ई हल्यघो:' इत्यत ईत्वमिह न शङ्कयमेव, झेर्जुसि हलादिपरत्वाभावादिति भावः । ननु दरिद्रा मि इति स्थिते जुसः प्रागेव आल्लोपात्परत्वादपवादत्वाच्च ईत्वं स्यात्, मैवम् श्रकृतव्यूहपरिभाषाया जागरूकत्वात् । इत्वनिमित्तं हि हलादित्वम्, तच्च विनाशोन्मुखम्, जुसो भावि - स्वात् । यदिति । 'अदभ्यस्तात्' इत्यनेन । तिप्यनस्तेः । पदान्तस्य किम्,