________________
प्रकरणम् ४४ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [३०१ (वा ४१४६ )। 'नुङि वा' (वा ४१४२)। 'सनि मुलि ल्युटि चन' ( वा ५०५८)। दरिद्रिता । अदरिद्रात् अदरिद्विताम् अदरिद्रुः । दरिद्रियात् । दरिद्रातः श्रौकारश्रवणार्थाद् औकारविधानादरिद्राते लिटि आम् नेति विज्ञायते ।
आमि सति णल एवाप्रसक्तरित्यर्थः । इदं च "वस्वे का जाद्धसाम्' इति सूत्र भाष्ये ध्वनितम् , कैयटेन स्पीकृतम्। तन्निर्मलमेवेति । 'कास्त्रापात्--' इति 'वस्वेकाच्-' इति सूत्रस्थभाष्यकैय रविरोधादिति भावः । ददरिद्रतुः ददरिद्रुः । ददरिद्रिय ददरिद्रथुः ददरिद्र । ददरिद्रौ ददरिद्रिव ददरिद्रिम । सार्धधातुके विवक्षित इति। आतो लोप इरिच' इत्याल्लोपो दरिद्रातेर्भवन् विङति प्रशिति च अजादावार्धधातुके भवति । स च आर्धधातुके विवक्षिते ततः प्रागेव अवतीति वक्तव्यमित्यर्थः । तेन दरिद्रातीति दरिद्रः , आल्लोपे कृते पचाद्यच् सिध्यति । आर्धधातुके परे आलोपप्रवृत्तौ तु 'श्यावयधा-' इत्यादन्तलक्षणो एप्रत्ययः स्यात् । ततश्च कृते रणप्रत्यये पाल्लोपं बाधित्वा 'आतो युक् चिरकृतोः' इति युकि दरिद्राय इति स्यात् । प्राधातुके विवक्षिते ततः प्रागेव श्राल्लोपे तु कृते श्रादन्तत्वाभावाद् प्रत्ययाभावे पचायच्यत्ययो निर्बाधः । तदिदं भाष्ये स्पष्टम् । लुङि वेति । लुङि आलोपो वा वक्तव्य इत्यर्थः । 'अद्यान्यां वेति वक्तव्यम्' इति वार्तिझार्थसंग्रहोऽयम् । अद्यतन्यामित्यनेन अद्यतनभूतार्थधातुविहितलुङ्विभक्तिर्विवक्षिता, भाष्ये तस्या एवोदाहरणात् । सनि रावुलि ल्युटि च नेति । एतेषु दरिदातेराहोपो नेति वक्तव्यमित्यर्थः । रालि यथा--दरिद्रायः, आतो युक् । ल्युटि यथा----दरिद्राणः, अनादेशे कृते आल्लोपाभावात् सवर्णदीर्घः । सनि यथा--दिदरिदासति । अनन्तरस्येति न्यायादस्य वार्तिकप्राप्तस्यैव लोपस्यायं निषेधः । तेन 'तनिपतिदरिद्राणामुपसंख्यानम्' इति दरिदातेः सन इट्पक्षे 'पातो लोप इटि च' इत्याल्लोपो भवत्येव--दिदरिद्रिषति । तदुक्तं भाष्ये—'न दरिदायके लोपो दरिद्राणे च नेष्यने । दिदरिद्रासतीत्येके दिदरिद्विषतीति वा'। दरिद्रितति । तासि इटि उदाहृतवार्तिकेन पाल्लोपः । 'पातो लोप इटि च' इत्यस्य संभवेऽपि न्याय्यत्वादत्र वार्तिकोपन्यासः । दरिद्रिष्यति । श्रवणार्थ सद् आमभावे लिङ्गमिति हरदत्तमाधवादिग्रन्थैः स्वगन्धेन च विरोधात् । तत्कथमौत्वस्याप्रवृत्तिर्भवेत् । यदप्युक्तम्-श्रोकारौकारथोचिमात्रत्वाविशेषादौकारविधानमिति, तदपि स्थवीयः, तस्मिन्पचे आमो दुर्वा रवप्रसङ्गात् । विवक्षित इति । तेन दरिद्रातीति दरिद्र इति पचाद्यजेव भवति । परसप्तम्यां तु 'श्याबधा-' इत्यादन्तलक्षणो णः स्यात् । सति तु तस्मिन् 'श्रातो युक् चिण्कृतोः' इति युकि दरिद्राय इति स्यादिति भावः। सनि खुलीति। एतेवालोपो नेत्यर्थः । दिद