________________
३०० ]
सिद्धान्तकौमुदी ।
[ श्रदादि
दरिद्रा १०७३ दुर्गतौ । दरिद्राति । २४८२ इहरिद्रस्य । ( ६-४-११४) दरिद्रातेरिकारः स्याद्धलादौ क्ङिति सार्वधातुके । दरिद्रितः । २४८३ नाभ्यस्तयोरातः । ( ६-४-११२ ) अनयोरातो लोपः स्यात् क्ङिति सार्वधातुके । दरिद्रति । श्रनेकास्वादाम् । दरिद्रांचकार । ' श्रात औौ णलः ' ( सू २३७१ ) इत्यत्र श्री इत्येव सिद्धे भौकारविधानं दरिद्रातेरालोपे कृते श्रवणार्थम् । अत एव ज्ञापकादान्नेत्येके । ददरिद्रौ ददरिद्रतुरित्यादि । यत्तु गलि ददरिद्वेति तन्निर्मूलमेव । 'दरिद्रातेरार्धधातुके विवक्षिते भालापो वाच्यः' शेषः । अजागरिष्टाम् अजागरिषुः इत्यादि सुगमम् । दरिद्राधातुरादन्तः सेट् । दुर्गतिः धनहीनीभवनम् । दरिद्रातीति । धनहीनीभवतीत्यर्थः । इद्दरिद्रस्य । सौत्रो ह्रस्वः । 'गमहन -' इत्यतः वितीत्यनुवर्तते । 'ई हल्यघोः' इत्यतो हलि इति 'अत उत्-' इत्यतः सार्वधातुके इति, तदाह दरिद्रातेरिति । 'श्राभ्यस्तयो:-' इत्याल्लोपापवादः । ‘अलोऽन्त्यस्य इत्यन्त्यस्य इकारः । दरिद्रित इति । 'सार्वधातुकमपित्' इति तसो ङित्त्वादाकारस्य इकारः । नाभ्यस्तयोरातः । 'गमहन- ' इत्यतो लोपः क्ङितीत्यनुवर्तते । 'अत उत् -' इत्यतः सार्वधातुके इति, तदाह श्रनयोरिति । श्नाप्रत्ययस्य श्रभ्यस्तस्य चेत्यर्थः । दरिद्वतीति । जक्षित्यादित्वादभ्यस्तत्वाद् 'अदभ्यस्तात्' इति झस्य प्रदादेशे श्राकारलोपः । दरिद्रासि दरिद्रिथः दरिद्रिथ । दरिद्रामि दरिद्रिवः दरिद्रिमः । लिटयाह श्रनेकाच्त्वादामिति । इदं च 'कास्प्रत्ययात् -' इति सूत्रभाष्ये स्पष्टम् । दरिद्रांचकारेति । श्रमि सव
दीर्घः । कैयटमतमाह श्रात इति । 'आत श्र णलः' इत्यत्र प्रथमातिक्रमे कारणाभावाद् श्रोकार एवं विधातुमुचितः । वृद्धौ सत्यां तावतैव ययौ इत्यादि - सिद्धेः । तस्मादौकारविधानं दरिद्राधातोर्णलि 'दरिद्रातेरार्धधातुके लोपो वक्तव्यः' इत्याल्लोपे ददरिद्रौ इत्यौकारश्रवणार्थ संपद्यते । श्रोकारविधाने तु श्राल्लोपे सति वृद्धेरसंभवाद् ददरिद्रो इत्योकार एव श्रूयेतेत्यर्थः । अत एवेति । अस्मादेव
या हि गुणप्रवृत्तिसमये वृद्धिः सा बाध्यते नान्येति भावः । श्र जागरिष्टाम् । श्रजागरिषुः। श्रजागरौरित्यादि । दरिद्रा । इद्दरिद्रस्य । इद्दरिद्र इति वक्तुमुचितम् । नाभ्यस्त । क्रीणन्ति । क्रीणते । पुनन्ति । पुनते । दधति । दधते । ङ्किति किम्, क्रीणाति । पुनाति । दधाति । अतः किम्, बिभ्रति । श्र इत्येव सिद्धे इति । प्रथमत्यागे मानाभावादिति भावः । निर्मूलमेवेति । यत्तु व्याख्यातृभिः समर्थ्यते आमोऽभावे श्रतो लोपे कृते दन्तत्वाभावादौत्वं नेति, तन्न, 'आत श्र णलः' इत्यत्र प्राथम्यादोकारे कर्तव्ये चौकारविधानं दरिद्रातेराल्लोपेऽपि