________________
प्रकरणम् ४४ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [२६६ २४८१ जुसि च । (७-३-८३) मजादौ जुसीगन्ताजस्य गुणः स्यात् । अजागरुः । अजादौ किम्-जागृयुः । आशिषि तु जागर्यात् जागाखाम् जागर्यासुः । लुकि अजागरीत् । 'जागृ इस्' इत्यत्र यण् प्राप्तः, तं सार्वधातुकगुणो बाधते, तं सिचि वृद्धिः, तो जागर्तिगुणः, तत्र कृते हलन्तलक्षणा वृद्धिः प्राप्ता, 'नेटि' (सू २२१८) इति निषिद्धा, ततः 'प्रतो हलादेः- (सू २२८४) इति बाधित्वा 'अतो क्रान्तस्य' (सू २३३०) इति वृद्धिः प्राप्ता, 'मयन्त-' (सू २२६६ ) इति निषिध्यते । तदाहु:
'गुणो वृदिर्गुणो वृद्धिः प्रतिषेधो विकल्पनम् ।
पुनर्वृद्धिनिषेधोऽतो यापूर्वाः प्राप्तयो नव ॥' इति । अजागृ उस् इति स्थिते 'सार्वधातुकमपित्' इति कित्त्वादविचिएणल्डित्स्विति पर्युदासादप्राप्ते गुणे आह जुसि च । अस्येत्यधित्यकृतम् । '
मिर्गुणः' इत्यतो गुण इत्यनुवर्तते । 'इको गुणवृद्धी' इति परिभाषया इक इत्युपस्थितेन अस्य विशेषणात्तदन्तविधिः। ‘क्सस्याचि' इत्यतोऽनुवृत्तेन अचीत्यनेन जुसीत्यस्य विशेषणात्तदादिविधिः, तदाह अजादावित्यादिना । अजागरुरिति । अजागः अजागृतम् अजागृत । अजागरम् अजागृव अजागृम । विधिलिङि यासुटो वित्त्वान गुणः । जागृयात् जागृयाताम् । जागृयुरिति । जुसि चेत्यत्र अजादावित्युक्तेन गुण इति भावः । आशिषि तु जागर्यादिति । किदाशिषि इति यासुटः कित्त्वाद् 'जाग्रोऽविचिण्णल्डित्सु' इति गुण इति भावः । जागृधातो हि सिचि इटि यणादिप्रा. प्तिक्रमं दर्शयति जागृ इस् इत्यत्रेति । तत्र कृत इति । 'जाग्रोऽविचिएणल्-' इति गुणे रपरत्वे कृते अजागर् ईदिति स्थिते सतीत्यर्थः । तदाहुरिति । वृद्धा इति. जागृथः । वृद्धिविषय इति । एवुलि जागरकः । घमि जागरः। णिचि जागरयति । न चैतेषु गुणे कृतेऽपि 'अत उपधायाः' इति वृद्धिः स्यादिति वाच्यम् , गुणविधेश्चिएणलप्रतिषेधस्य चानर्थक्यापत्तेः । जुसि च । चकारः स्पष्टप्रतिपत्त्यर्थः । 'क्सस्याचि' इत्यतोऽचीत्यनुवर्तत इत्याह प्रजादाविति । जागृयु. रिति । एवं शृणुयुः चिनुयुरित्यादावपि गुणो नेति बोध्यम् । यासुटो छित्त्वाच्छृणुयुरित्यादौ गुणो नेति प्राचोक्तिस्तु मनोरमायां दूषिता, 'जुसि च' इति गुणस्य निषे. धापवादत्वादिति । केचित्तु-'जुसि च' इत्यत्र उसीत्याव] उस्रूपे जुसीति व्याख्यानानोक्कदोष इत्याहुः। अजादौ जुसीति समाधानं तु भाष्यारूढम् । जागर्तेः सिच इटि कृते यणादिप्राप्तिक्रमं दर्शयति जागृ इस् इत्यत्रेति । तत्र कृत इति । हलन्तलक्षणाया वृद्धर्जागर्तिगुणेन बाधस्तेन गुणेन हलन्तत्वसंपादनात् ।