________________
प्रकरणम् ४४] बालमनोरमा तत्त्वबोधिनीसहिता। [२६७ स्वप्यात् । सुप्यात् । सुषुप्यात् । अस्वाप्सीत् । श्वस १०६६ प्राणने । श्वसिति । श्वसिता। अश्वसीत् , अश्वसत् । श्वस्याताम् । श्वस्यास्ताम् । 'झयन्तषण-' (सू २२६६ ) इति न वृद्धिः । अश्वसीत् । अन १०७० च । प्रनिति । भान । अनिता । पानीत् , अानत् । २४७८ अनितेः। (८-४-१६) उपसर्गस्थानिमित्तात्परस्यानितेनस्य णः स्यात् । प्राणिति । जक्ष १०७१ भक्षहसनयोः । जतिति जक्षितः । २४७६ अदभ्यस्तात् । (७-१-४) झस्य अत्स्यात् । अन्तापवादः । जक्षति । 'सिजभ्यस्त-' (सू २२२६) इति झर्जुस् । अजनुः । अयमन्तस्स्थादिरित्युज्ज्वलदत्तो बभ्राम । रुदादयः पञ्च गताः । सस्यार्थवत्त्वाभावान्न ष इति द्रष्टव्यम् । स्वप्ता । स्वप्स्यति । स्वपितु, स्वपितात् स्वपिताम् स्वपन्तु । स्वपिहि, स्वपितात् स्वपितम् स्वपित । स्वपानि स्वपाव स्वपाम । लङ्याह अस्वपीत्, अस्वपदिति । 'रुदश्च पञ्चभ्यः' इति ईटि 'अड्गार्यगालवयोः' इत्यटि च रूपे । अन्यानि रुदिवद्रूपाणि । लिब्याह सुप्यादिति । 'वचिस्वपि-' इति संप्रसारणमिति भावः । 'सुविनि<W:-' इति षत्वं मत्वाह सुषुप्यादिति । अस्वाप्सीदिति । अनिटकत्वान्न सिज्लोप इति भावः । श्वस प्राणन इति । वलाद्यार्धधातुके सेडयम् । सार्वधातुके तु वलादौ 'रुदादिभ्यः-' इति इट् । लङस्तिपि 'रुदश्च-' इति ईटम् 'अड्गार्य-' इत्यत्रं च मत्वाह अश्वसीत्, अश्वसदिति । विध्याशीर्लिङोः श्वस्यादिति सिद्धवत्कृत्याह श्वस्याताम् । श्वस्यास्तामिति । अन चेति । अनधातुरपि प्राणने वर्तते इत्यर्थः । सेडयम् । सार्वधातुकेऽपि वलादौ 'रुदादिभ्यः-' इति इट् । लङि ईडटौ मत्वाह आनीत्, आनदिति । अनितेः । 'रषाभ्यां नो णः' इत्यनुवर्तते । 'उपसर्गादसमासेऽपि-' इत्यत उपसर्गादिति, तदाह उपसर्गस्थादिति । भिन्नपदस्थत्वादप्राप्तौ वचनम् । जक्षधातुः सेट् । वलादौ सार्वधातुकेऽपि 'रुदादिभ्यः-' इति सेट । अदभ्यस्तात् । भस्यति । 'झोऽन्तः-' इत्यतस्तदनुवृत्तेरिति भावः । जक्षतीति । 'जक्षित्यादयः षट्' इत्यभ्यस्तसंज्ञेति भावः । लङस्तिपि ईडटोः अजक्षीत् अजक्षत् इति सिद्धवत्कृत्याह सिजभ्यस्तेति । अदादेशापवादो जुस् । अन्तस्थादिरिति । तालव्यान्तास्थादिरित्यर्थः । बभ्रामेति । “जक्षन् धानान्तरमूह्यमित्यन्ये । अनितः । 'उपसर्गादसमासेऽपि-' इत्यत उपसर्गादिति वर्तते, 'रषाभ्याम्-' इत्यतो 'नो णः' इति च तदाह उपसर्गस्थादित्यादि । अन्तापवाद इति । 'मोऽन्तः' इत्यस्य अदादेशोऽपवादः, अस्य त्वपवादो जुसिति ज्ञेयम् । बभ्रामेति । 'जक्षन् क्रीडन् रममाणः' इत्युपनिषदि जशादित्वस्य निर्वि
HHHHHHHHHHHHHETTE