________________
सिद्धान्तकौमुदी।
[अदादि
२६६ ] युज्यते' । किति लिटि परवात्संप्रसारणे षत्वे च कृते द्विस्वम् । 'पूर्वत्रासिद्धीयमद्विर्वचने' (१ १२७) सुषुषुपतुः सुषुषुपुः । पिति तु द्विस्वेऽभ्यासस्य सप्र. सारणम् । षत्वस्यासिद्धस्वात्ततः पूर्व 'हलादिः शेषः' (सू २१७६ )। नित्य. स्वाञ्च । ततः सुपिरूपाभावाब पः । सुसुष्वाप । सुस्वप्ता । अस्तपीत् , अस्वपत् । संप्रसारणम्' इति निषेधाच्च । ततश्च सु ससुप् अतुसित्यत्र पूर्वखण्डस्य कृतसंप्रसार. णत्वाभावात् कथं षत्वम् । उत्तरखण्डस्य च सु इत्युपसर्गादव्यवहितपरत्वाभावात्कथमनेन षत्वम् , इणकवर्गाभ्यां परत्वाभावेन आदेशप्रत्यययोः इत्यस्थाप्युत्तरखण्डे अप्रवृत्तेः । यदि तु परत्वात्पूर्व संप्रसारणे कृते पश्चाद् द्वित्वं तर्हि सुप इत्यस्य द्वित्वप्रवृत्तेः प्रागेव षत्वमिति वक्तव्यम् । तत्तु न युज्यते । 'पूर्व धातुः साधनेन युज्यते पश्चादुपसर्गण' इति परिभाषया सु इत्युपसगेसंबन्धस्य द्वित्वात्प्रागप्रवृत्तेः । तथा च कृतसंप्रसारणस्य अकृतषत्वस्य सुप् इत्यस्य द्वित्वे उत्तरखण्डस्येव 'आदेशप्रत्यययोः' इति षत्वं स्यात् । न तु पूर्वखण्डस्य 'सात्पदाद्योः' इति निषेधात । कृते हलादिशेषे सु इति पूर्वखण्डस्य सुबपत्वाभावेन 'सुविनिर्दुर्व्यः-' इत्यस्याप्यप्रवृत्तिः । न च एकदेशविकृतस्यानन्यत्वं शङ्कयम् , एवमप्यभ्यासस्यानर्थकत्वेन अर्थवद्ग्रहणपरिभाषया षत्वस्य तत्राप्राप्तेः । तस्मादिह सुषुषुपतुरित्यत्र पूर्वखण्डे षत्वं दुरुपपादमित्याशङ्कयाह पूर्व धातुरित्यादिना । लक्ष्यानुरोधादिह 'पूर्व धातुरुपसर्गेण युज्यते पश्चात्साधनेन' इत्याश्रीयते । ततश्च द्वित्वात्प्रागेव परत्वात्संप्रसारणे सति सुप् इत्यस्य सु इत्युपसर्गपूर्वकत्वमादाय षत्वे च कृते सति पुनः प्रसङ्गविज्ञानात् षुप् इत्यस्य कृतषत्वस्य द्वित्वे सति खण्डद्वयेऽपि षकारश्रवणं निर्बाधमित्यर्थः । तदुक्तं भाष्ये- 'षुपिभूतो द्विरुच्यते' इति । ननु कृतषत्वस्य कथं द्वित्वम् , द्वित्वे कर्तव्ये षत्वस्यासिद्धत्वादित्यत आह प्रर्वत्रा. सिद्धीयमिति । ननु तर्हि सुसुष्वापेत्यत्रापि पूर्वखण्डे षत्वं श्रयेतत्यत श्राह पिति त्विति । पिति णलि कित्त्वाभावाद् ‘वचिखपि-' इत्यस्याप्रवृत्तौ कृते द्वित्वे 'लिट्यभ्यासस्य-' इति पूर्वखण्डस्य संप्रसारणम् । सु सुप् स्वप् अ इति स्थिते 'सुविनिदुर्य:-' इति षत्वस्यासिद्धत्वाद् हलादिशेष इत्यर्थः । नित्यत्वाच्चेति । कृते अकृते च षत्वे हलादिशेषस्य प्राप्तेरिति भावः । तत इति। हलादिशेषोत्तरं सु इत्यस्यैव स्थित्या सुप् इति रूपस्याभावान ष इत्यर्थः। एकदेशविकृतत्वादनन्यन्वेऽपि अभ्यासुषूतिः । सुषमा । विषमः । अद्विर्वचन इति। तेन षत्वसहितस्य. द्वित्वम् । सुपि रूपाभावादिति। 'एकदेशविकृतमनन्यवत्' इति तु न प्रवर्तते । तस्य स्थानिवत्सूत्रशेषत्वात् । षत्वस्य त्रैपादिकत्वेन तत्कार्य प्रति स्थानिवत्त्वाभावादित्याहुः। वस्तुतस्तु 'स्थानिवदादेश-' इत्येतत् प्रति त्रिपादी सिद्धत्युक्तम् । तस्मादिह समा.