________________
प्रकरणम् ४४] बालमनोरमा-तत्त्वबोधिनीसहिता। [२६५ (७-३-६६) अरोदीत्, अरोदत् अरुदिताम् अरुदन् । अरोदीः, अरोदः । अरोदम् । प्रकृतिप्रत्ययविशेषापेक्षाम्यामडीड्म्यामन्तरणस्वाद्यासुट् । रुयात् । अरुदत्, अरोदीत् । भि व १०६८ शये । स्वपिति स्वपितः। सुष्वाप सुषुपतुः सुषुपुः । सुष्वपिथ, सुन्वय । २४७७ सुविनिर्दुर्व्यः सुपिसूति. समाः। (८-३-८८) एभ्यः सुप्यादेः सस्य षः स्यात् । 'पूर्व धातुरुपसर्गेण ष्टोऽर्थः । अरोदीरिति । अरुदितम् अरुदित इत्यपि ज्ञेयम् । अरोदमिति । अरुदिव अरुदिम इत्यपि ज्ञयम् । ननु लिस्तिपि यासुटं बाधित्वा परत्वाद् 'अड्गा
>गालवयोः' इति 'रुश्च पञ्चभ्यः' इति च अडीटौ स्यातामित्यत आह प्रकृति प्रत्ययेति । हलादिपित्सार्वधातुकापृक्तापेक्षत्वाच्चेत्यपि ज्ञेयम् । लुकि 'इरितो वा' इत्यङ्पक्षे आह अरुददिति । अङभावपक्षे त्वाह अरोदीदिति । 'अस्तिसिच:-' इति ईट् । 'रुदश्च पञ्चभ्यः' इति तु नेह प्रवर्तते, सिचा व्यवहितत्वात् । त्रिष्वप् शय इति । षोपदेशोऽयम् । अधिधातुके अनिट् । स्वपितीति । 'रुदादिभ्यः' इति इट । स्वपित इति । स्वपन्ति । स्वपिषि खपिथः स्वपिथ । स्वपिमि स्वपिवः स्वपिमः । सुष्वापेति । द्वित्वे 'लिव्यभ्यासस्य-' इति संप्रसारणे पूर्वरूपे आदेशसकारत्वा षत्वमिति भावः । सुषुपतुरिति । 'वचिस्वपि-' इति संप्रसारणे कृते द्वित्वादी|ते भावः । सुषुपुरित्यपि ज्ञेयम् । सुष्वपिथ, सुष्वप्थेति । भारद्वाजनियमात्थलि वेडिति भावः । सुषुपथुः सुषुप । सुष्वाप, सुष्वप सुषुपिव सुषुपिम । सुविनिर्दुर्व्यः। कृतसंप्रसारणस्य स्वप्धातोः सुपीत्यनेन ग्रहणम् । सूतीत्यनेन सूतिशब्दः कृदन्तो गृह्यन्ते। समेत्यनेनापि समशब्दस्य ग्रहणम् । षष्ठयर्थे प्रथमा । 'सहेः साडः सः' इत्यतः स इति षष्ठयन्तमनुवर्तते । मूर्धन्य इत्यधि. कृतम् तदाह एभ्यः सुप्यादेरिति । सुषुप्तिः, सुषूतिः, सुषम इत्युदाहरणानि । अत्र कृतसंप्रसारणस्य स्वप्धातोग्रहणात् सुस्वप्न इत्यत्र न षत्वमिति भाष्यम् । नन्वेषं सति सुषुषुपतुरि यत्र सुपूर्वस्य स्वपधातोः कथं षत्वम् । कृतसंप्रसारणस्य हि स्वपधातोः षत्वम् । तत्र यदि स्वप् अतुस् इति स्थिते पूर्व द्वित्वे कृते पश्चाद् 'वचिस्वपि ' इति संप्रसारणं तदा हलादिशेषे उत्तरखण्डस्यैव 'वचिस्वपि-' इति संप्रसारणम् , न त्वभ्यासस्य । अतुसः कित उत्तरखण्डव्यवहितत्वात् , 'न संप्रसारणे बहिरङ्गत्वमडीटोः । अरुददिति । 'इरितो वा' इत्यङ् । अरोदीदिति । 'अस्तिसिच-' इति ईट् । 'रुदश्च-' इत्यनेन तु न, सिचा व्यवधानेन रुदादेः परत्वाभावात् । सुषुपतुरिति । 'वचिस्वपि-' इति संप्रसारणम् । ततो द्वित्वम् । सुपिसूतिसमा इति । सूतीति क्लिनन्तः । समेति पचाद्यजन्तः । सुषुप्तिः ।