________________
२६४ ]
सिद्धान्तकौमुदी ।
[ श्रदादि
"
श्रमार्ट् । श्रमार्जम् । श्रमार्जीत्, अमार्चीत् । रुदिर् १०६७ श्रश्रुविमोचने । २४७४ रुदादिभ्यः सार्वधातुके । ( ७-२-७६) रुद्, स्वप्, श्वस्, अन्, जत् एम्यो वलादेः सार्वधातुकस्येट् स्यात् । रोदिति रुदितः । हौ परत्वादिटि घित्वं न । रुदिहि । २४७५ रुदश्च पञ्चभ्यः । ( ७-३ - ६८ ) हलादेः पितः सार्वधातुकस्यापृक्रस्य ईद् स्यात् । २४७६ अड् गार्ग्यगालवयोः । तदभावे च ‘मृजेर्वृद्धिः' इति भावः । मार्जिण्यति, मादयति । माटु, मृष्टात् मृष्टाम् मार्जन्तु, मृजन्तु । मृड्ढीति । हैरपित्वेन वित्त्वान्न वृद्धिः । व्रश्वादिना जस्य षः, हेर्धिः, षस्य जश्त्वेन डः, धस्य ष्टुत्वेन ढः । मृष्टात् मृष्टम् मृष्ट मार्जानि मार्जाव मार्जा । लब्याह श्रमार्ट् इति । तिप इकारलोपे वृद्धौ परत्वे इल्यादिना तकारलोपे व्रश्वादिना जस्य षः, तस्य जश्त्वच इति भावः । धमृष्टाम् श्रमार्जन्, अमृजन् । श्रमार्ट् श्रमृष्टम् अमृष्ट । श्रमार्जमिति । अमृज्व अमृज्म । मृज्यात् मृज्याताम् । मृज्यास्ताम् । श्रमार्जीत्, श्रमार्त्तीदिति । ऊदित्त्वादिविकल्प इति भावः । इट्पक्षे मार्जिष्टाम् श्रमार्जिषुरित्यादि सुगमम् । इडभावे श्रमाष्टम् श्रमार्त्तुः । श्रमार्त्तीः श्रमार्धम् श्रमार्ष्ट । श्रमाम् श्रमादमा । श्रमार्जिष्यत्, श्रमात् । रुदितुरिरित् सेट् । रुदादिभ्यः । इड्वल देरित्यनुवृत्तिं मत्वाह बलादेरिति । रुदित इति । वित्वान्न गुणः । रुदन्ति । रोदिषि रुदिथः रुदिथ । रोदिमि रुदिवः रुदिमः । रुरोद रुरुदतुः । रुरोदिथ । रुरुदिव रुरुदिम । रोदिता । रोदिष्यति । रोदितु, रुदितात् रुदिताम् रुदन्तु | रु३ि हि इति स्थिते ‘हुझल्भ्यः-' इति धित्वमाशङ्कयाह हौ परत्वादिति । रुदिहीति । हेरपित्त्वेन ङित्त्वान्न लघूपधगुण इति भावः । रुदितात् रुदितम् रुदित । रोदानि रोदाव रोदाम । रुदश्च पञ्चभ्यः । ' नाभ्यस्तस्य -' इत्यतः पिति सार्वधातुके इति 'उतो वृद्धिः-' इत्यतो हलीति 'गुणोऽपृक्ते' इत्यतः श्रपृक्ते इति 'ब्रव ईटू' इत्यत ईडिति चानुवर्तते । रुद इति पञ्चमी । रुदादिभ्य इति विवक्षितम् इत्यभिप्रेत्य सूत्रशेषं पूरयति हलादेरित्यादिना । श्रड्गार्ग्यगालवयोः । अनयोर्मते रुदादिभ्यः पञ्चभ्यः परस्य हलादेः पितः सार्वधातुकस्य अपृक्तस्य श्रागमः स्यादिति स्प
♡
भाष्यकृता स्वीकृतम् । मृड्ढीति । 'हुझल्भ्यः -' इति हेर्धिः । षत्वष्टुत्वजश्त्वानि । वलादेः सार्वधातुकस्येति । वलादेः किम् रुदन्ति । सार्वधातुके किम्, स्वप्त धित्वं नेति । सकृद्गताविति न्यायात्, हेर्धिरिति स्थान्या देशयोरि
"
उच्चारणार्थ इत्यादिप्रागुक्तसमाधानाद्वेति भावः । रुदश्व । पञ्चभ्यः किम्, जागर्तेर्लङि श्रजागः । प्रकृतिप्रत्ययेत्यादि । हलादिपित्सार्वधातुका पृक्वापेक्षत्वाच्च