________________
प्रकरणम् ४४ ] बालमनोरमा-तत्त्वबोधिनीसहिता ।
[ २६३
यष्परः किम्-अभिस्तः । मृजूष १०६६ शुद्धौ । २४७३ मृजेर्वृद्धिः । ( ७-२-११४ ) मृजेरिको वृद्धिः स्याद्धातुप्रत्यये परे । 'विङत्यजादौ वेष्यते -' ( वा २०५७ ) । 'वश्व -' ( सू २१४ ) इति षः । मार्ष्टि मृष्टः मृजन्ति, मार्जति 1 ममार्ज ममार्जतुः, ममृजतुः । ममार्जिथ, ममा । मार्जिता, माष्टर्श । मृड्ढि | रकत्वे उदाहरति निषन्ति प्रादुष्यन्तीति । मृजूष् शुद्धाविति । ऊदित्त्वमिविकल्पार्थम् । 'षिद्भिदादिभ्योऽङ्' इत्यर्थं वित्त्वम् । वस्तुतस्तु भिदादिगणे मृजाशब्दपाठादेव सिद्धेरिह षित्करणमनार्षमित्याहुः । मृजेवृद्धि: । 'इको गुणवृद्धी' इति परिभाषया इक इत्युपस्थितम् । मृजेरित्यवयवषष्ठी, तदाह मृजेरिको वृद्धिः स्यादिति । 'धातोः स्वरूपग्रहणे तत्प्रत्यये कार्यविज्ञानम्' इति परिभाषा - मभिप्रेत्य आह धातुप्रत्यये पर इति । धातोर्विहिते प्रत्यये इत्यर्थः । तेन परिमृड्भ्यामित्यत्र न वृद्धिरिति भावः । गणापवादोऽयम् । किङत्यजादौ वेष्यत इति । भृजेर्वृद्धिरिति शेषः । 'इको गुणवृद्धी' इति सूत्रभाष्ये इदं पठितम् । वश्चेति ष इति । मृज् ति इति स्थिते ऋकारस्य वृद्धौ रपरत्वे जकारस्य वश्चेति षत्वे तकारस्य ष्टुत्वेन टकारे माष्टति रूपमित्यर्थः । मृष्ट इति । ङित्त्वान्न वृद्धिः नापि गुण इति भावः । मृजन्ति, मार्जन्ति इति । क्ङित्यजादाविति वृद्धिविकल्प इति भावः । मार्त्ति मृष्ठः मृष्ठ । माज्मि मृज्वः मृज्मः । ममार्जेति । गलि सृजेर्बृद्धिरिति भावः । अतुसादावजादौ किति वृद्धिविकल्पं मत्वाह ममार्जतुः, ममृजतुरिति । ममार्जुः ममृजुः इत्यपि ज्ञेयम् । ऊदित्त्वादिड्विकल्पं मृजेर्वृद्धिं च मत्वाह ममार्जिथ, ममाठेति । इडभावे जस्य व्रश्चेति षः । थस्य टुत्वेन ठ इति भावः । ममार्जथुः, ममृजथुः ममार्ज, ममृज । ममार्ज ममार्जिव, ममृजिव, मैमृज्व ममार्जिम, ममृजिम, ममृज्म । लुय्याह मार्जिता, मार्केति । ऊदित्त्वादिटि मिति निर्देशो न युज्यत इति प्राचां षान्तपाठः प्रामादिकः । परस्यति । अयमस्तेः सस्य विशेषणं न त्वस्तेः तेन प्रादुरस्तीत्यत्र न षत्वम् । उपसर्गेत्यादि किम्, दधि स्यात् । अस्तेः किम्, परिसृजति । मृजू शुद्धौ । अयं न षित्, भिदादिपाठसामर्थ्यात् । मृजेर्वृद्धिः । गुणापवादः । धातोः स्वरूपग्रहणे तत्प्रत्यये कार्यविज्ञानमित्याह धातुप्रत्यय इति । धातुप्रत्यये किम्, कंसपरिमृड्भ्याम् । किङत्यजादाविति । एतच्चान्येषां वैयाकरणानां मतम् 'इको गुणवृद्धी' इति सूत्रे १ - ' मृजू' इति षकाररहितपाठ एव बहुत्रोपलभ्यते ।
२ – केचित्विह क्रादिनियमान्नित्यमिटमाहुः, क्रादिनियमस्य नञ् - वेत्युभयप्रापितनिषेधनियामकत्व स्वीकारात् ।