________________
२६२] सिद्धान्तकौमुदी।
[अदादि पासीत् । भसोरलोपस्याभीयत्वेनासिद्भवादाट । आस्ताम् आसन् । स्यात् । भूयात् । प्रभूत् । सिचोऽस्तेश्च विद्यमानस्वेन विशेषणादीएन । २४७२ उपसर्गप्रादुर्ध्यामस्तिर्यच्परः । (८-३-८७ ) उपसर्गेणः प्रादुसश्च परस्यास्तेः सस्य षः स्याद्यकारेऽचि च परे । निष्यात् । प्रादुःज्यात् । निषन्ति । प्रादुःषन्ति । इति ईडागम इत्यर्थः । ननु तसादौ डिति परत्वादाडागमात्प्राक 'नसोः-' इत्यल्लोपे सति अजादित्वाभावात् कथमाडित्यत आह नसोरल्लोपस्याभीयत्वेनेति । आस्तामिति । अत्र कृते आडागमे तस्य लोपनिवृत्यर्थ 'नसोरल्लोपः' इति तपर. करणम् । वस्तुतस्तु श्राट अाभीयत्वेनासिद्धत्वादेव लोपो न भवतीति 'श्नसोरल्लोपः' इत्यत्र तपरकरणं व्यर्थमिति भाष्ये स्पष्टम् । आसन्निति । श्रासीः प्रास्तम् आस्त। आसम् आस्व आस्म । विधिलिङयाह स्यादिति । स्याताम् स्युन्त्यिादि । आशीर्लिङि आर्धधातुकत्वाद् भूभावं मत्वाह भूयादिति । लुङि तु सिचि भूभावे 'गातिस्था-' इति सिचो लुकं मत्वाह अभूदिति । तत्र 'अस्तिसिचोऽपृक्त' इति ईडागममाशङ्कयाह सिचोऽस्तेश्चेति । इह भूभावे सति अस्तरयमाणत्वाद् ईग्नेति भावः । उपसर्गप्रादुर्ध्याम् । उपसर्गः प्रादुस् अनयोर्द्वन्द्वः। इएकोरित्यधिकृतम् । तत्र इण इत्युपसर्गेण संबध्यते, न तु प्रादुसि, ततः परस्य अस्तेः सस्य इणः पर. त्वासंभवात् । कोरित्यपि असंभवान्न संबध्यते । अस्तिरिति षष्टयर्थे प्रथमा। 'सहेः साडः सः' इत्यतः स इति षष्ठयन्तमनुवर्तते, मूर्धन्य इत्यधिकृतमू । य् अच् अनयोर्द्वन्द्वः । यचौ परौ यस्मादिति विग्रहः । यकारे अकारे च परे इति लभ्यते । तदाह उपसर्गेण इति । उपसगस्यादिण इत्यर्थः । परस्येति । अस्तेः सस्य विशेषणमिदम् । न त्वस्तेः । तेन प्रादुरासीदित्यत्र न षत्वम् । यकारपरकत्वे उदाहरति निष्याद्, प्रादुष्ष्यादिति । प्रादुस् इति सान्तमव्ययम् । सस्य षत्वे पूर्वस्य सस्य ष्टुत्वेन षः । षान्तत्वे तु प्रादुर्व्यामिति रुत्वनिर्देशो नोपपद्यते। अच्परेद्धा। एत्वमलोन्त्यस्य, लोपस्तु शित्त्वात्सर्वस्येति भाष्यादौ स्पष्टम् , देहि धेहि। प्रसिद्धत्वादाडिति । नन्वेवमाटोऽसिद्धत्वात् 'श्नसोः-' इत्यल्लोपो न भवेदिति तपरकरणं तत्र व्यर्थमिति चेत् । अत्राहुः-आभाच्छास्त्रस्यानित्यताज्ञापनाय तपरकरणम् , तेन देभतुरित्यादि सिद्धमिति । स्यादतत्-अत्र केचिद् अद्ग्रहणस्य निष्फलत्वे तपरकरणस्य ज्ञापनार्थत्वं न सिध्येत् । न च 'अत उत्-' इति सूत्रस्थतपरकरणमेव ज्ञापनार्थमस्त्विति वाच्यम् , अस्येत्युक्ती गौरवादर्धमात्रालाघवाय तत्र तपरत्वमिति सुवचत्वात् । तस्मादुक्वज्ञापनार्थमग्रहणमावश्यकमित्याहुः । उपसर्गप्रादुर्ध्याम् । प्रादुस् इति सान्तमव्ययम् । प्रादुषश्चेति पाठे प्रादुर्व्या