________________
प्रकरणम् ४४ ]
बालमनोरमा-तत्त्वबोधिनीसहिता ।
[ २११
अस १०६५ भुवि । श्रखि । २४६६ नसोरल्लोपः । ( ६-४-१११ ) श्नस्यास्तेश्चाकारस्य लोपः स्यात्सार्वधातुके क्विति । स्तः सन्ति । 'तासस्त्योः - ' ( सू २१११ ) इति सलोपः । असि स्थः स्थ । अस्मि स्वः स्मः । 'आर्धधातुके' ( सू २४३२ ) इत्यधिकृत्य । २४७० अस्तेर्भूः । (२-४-५२) बभूव । भविता । अस्तु, स्वात् स्ताम् सन्तु । २४७१ ध्वसोरेद्धावभ्यासलोपश्च । ( ६-४- ११६ ) वो रस्तेश्चैवं स्याद्धौ परेऽभ्यासलोपश्च । श्रभीयत्वेनैरवस्था• सिद्दत्वाद्धेर्धिः । 'अनो:-' ( सू २४६६ ) इत्यल्लोपः । एधि । तातपत्ते एवं न । परेण तातढा ब्राधात् । ' सकृद्गतौ - ' ( प ४१ ) इति न्यायात् । स्वात् स्तम् स्त । श्रसानि प्रसाव असाम | 'अस्तिसिचः -' ( सू २२२५ ) इतीट् । दकारस्य रुत्वविकल्पः । अवित्तम् अवित्त । वेदम् श्रविद्व विद्म । विद्यात् विद्याताम् । विद्यात् विद्यास्ताम् । प्रवेदीत् । अवेदिष्यत् । अस भुवीति । भवनं भूः । सत्तायामित्यर्थः । श्रस्तीति । सस्य चर्वेऽपि सकार एव भवति, न तु तकारः, अल्पप्राणतया प्रयत्नभेदात् । श्नसोरल्लोपः । अत् इति लुप्तषष्ठीकं पदम् । न अस् अनयोर्द्वन्द्वात् षष्ठीद्विवचनम् । शकन् वादित्वात् पररूपम् । श्नेति श्रप्रत्ययैकदेशनिर्देशः । 'श्रत उत्सार्वधातुके' इत्यतः सार्वधातुके इत्यनुवर्तते, 'गमहन -' इत्यतः क्ङितीति, तदाह श्रस्येत्यादिना । अस्तेर्भूः । असधातोर्भूभावः स्याद् श्रार्धधातुके परे इत्यर्थः अस् हि इति स्थिते घ्वसोरेद्धावभ्यासलोपश्च । घुस् अनयोर्द्वन्द्वः । एत् हौ इति च्छेदः। ननु अस् ह्नि इति स्थिते 'हुझल्भ्यो हेर्धिः' इति धित्वं परत्वाद् बाधित्वा 'ध्वसोः -' इति सकारस्य एत्त्वे कृते हुझल्भ्यः परत्वाभावात् कथं धिभाव इत्यत आह आभीयत्वेनेति । तथा च अ ए धीति स्थिते आह नसोरिति । नन्वाशिषि अस् हि इति स्थिते तातढं बाधित्वा परत्वादेत्त्वं प्राप्नोतीत्यत आह तातपक्षे पत्त्वं नेति । कुत इत्यत श्राह परेणेति । ननु कृते तातङि तस्य स्थानिवत्त्वेन हित्वात्तस्मिन्परे ‘घ्वसोः-' इत्येत्त्वं कुतो नेत्यत श्राह सकृद्गताविति । सकृद् एकवारं गतौ प्रवृत्तौ विप्रतिषेधे विरोधे सति यद्वाधितं तद्बाधितमेव भवति, न तु पुनः प्रवर्तत इति तदर्थः । लङस्तिपि विशेषमाह अस्तिसिच इति । इकारलोपे प्राटि वृद्धौ 'अस्तिसिचः - ' तच्चिन्त्यम्, वेत्सीत्यत्र तिप्रसङ्गाच्चर्त्वस्यासिद्धत्वेन दान्तत्वात् । श्नसोरल्लोपः । 'अत उत्-' इति सूत्राइत इत्यनुवर्त्यहणं त्यक्तुं शक्यमित्याहुः । नसोरिति । शकन्ध्वादित्वात्पररूपमित्याह नस्यास्तेश्चेति । श्रस्योदाहरणं रुन्धः, रुन्धन्तीत्यादि । किम, रुणद्धि, अस्ति । तपरकरणमास्तामासनित्यत्र त्याडागमे कृते तस्य लोपो माभूदित्येतदर्थम् । निष्कर्षस्तु अनुपदं स्फुटीभविष्यति । वसो