________________
२६० ]
सिद्धान्तकौमुदी ।
[ श्रदादि
सिद्धम् । विदांकरोतु । २४६७ त उत्सार्वधातुके । ( ६-४- ११० ) उप्रत्ययान्तस्य कृञोऽकारस्य उस्स्यात्सार्वधातुके क्ङिति । उदिति तपरस्वसामर्थ्याच गुणः । विकुरुतात् विदांकुरुताम् । 'उतश्च -' ( सू २३३४ ) इति हेर्लुक् । श्रभीयत्वेन लुकोsसिद्धत्वादुत्वम् । विदांकुरु । विदांकरवाणि । श्रवेत् श्रवित्ताम् । 'सिजभ्यस्त -' ( सू २२२६ ) इति झेर्जुस् । श्रविदुः । २४६८ दश्व । ( ८-२-७५) धातोर्दान्तस्य पदस्य सिपि परे रुः स्याद्रा । श्रवेः, श्रवत् । उक्लज्ञापनाभावाद् विश्वसेदित्य संबद्धमेवेत्याहुः । विश्वस्तमित्यत्र तु श्रागमशास्त्रस्यानित्यत्वाद् नेडित्याहुः । विदां करोत्विति । अत्र विदेर्लोटि श्रमि लोटो लुकि श्रामन्ताद्विदेः कृञो लोडन्तस्यानुप्रयोगः । तत्र लोटस्तिपि 'एरु ' इत्युत्वे शपं बाधिवा उप्रत्यये ऋकारस्य गुणे रपरत्वे उकारस्य तिब्निमितो गुणः । तातङि तु ऋकारस्य गुणे रपरे तातो ङित्त्वाद् उकारस्य गुग्गुणाभावे विदां करुतात् इति स्थिते । अत उत् । उप्रत्ययान्तस्येति । 'उतश्च प्रत्यय तू-' इत्यतस्तदनुत्रृत्तेरिति भावः । कृञो ऽकारस्य उदिति । 'नित्यं करोतेः इत्यतस्तदनुवृत्तेरिति भावः । किङतीति । 'गमहन -' इत्यतस्तदनुवृत्तेरिति भावः अकारस्य उत्त्वे कृते तस्य लघूपधगुणमाशङ्कय श्राह तपरेति । इदं स्थानिवत्सूत्रे भाष्ये स्पष्टम् । विदांकुरुतामिति । विदांकुर्वन्त्वित्यपि ज्ञेयम् । 'न भकुराम्' इति निषेधाद् 'हलि च' इति दीर्घो न । हेर्लुगिति । विदांकुरु हि इति स्थिते 'अत उत्सार्वधातुके ' इत्युत्त्वं परमपि बाधित्वा नित्यत्वाद् 'उतश्च प्रत्ययात् -' इति हेर्लुगित्यर्थः । तर्हि सार्वधातुकाभावात् कथमुत्त्वमित्यत श्राह श्राभीयत्वेनेति । विदांकुर्विति । विदांकुरुतात् विदांकुरुतम् विदांकुरुत । विदां करवाणीति । श्राटः पित्वेन वित्त्वाभावादुकारस्य गुण इति भावः । विदांकरवाव विदांकरवाम । लब्याह अवेदिति । इल्यादिना सिपो लोपे विशेषमाह दश्च । 'सिपि धातो रुर्वा इत्यनुवृत्तम् । द इति षष्ठ्यन्तेन धातुर्विशेष्यते, तदन्तविधिः, पदस्येत्यधिकृतम्, तदाह धातोर्दान्तस्य पदस्येति । अलोऽन्त्यस्येत्यन्त्यस्य ज्ञेयम् । अवेदिति । सिपो हल्ब्यादिलोपे शास्त्रस्यानित्यत्वादिति गृहाण । अत उत्सार्व । ङ्किति किम् करोति । करोषि । लुको सिद्धत्वादिति । सार्वधातुकप्रहणमुत्तरार्थमेव नात्रावश्यकम् । इह भुतपूर्वगत्या सार्वधातुकपरत्वमाश्रीयत इति वृत्तिमते त्वसिद्धत्ववर्णनस्योपयोगलेशोऽपि नास्तीति ज्ञेयम् । दश्च । 'सिपि धातोरुव' इत्यनुवर्तते, पदस्येति 'झलां जशोऽन्ते' इत्यस्मादन्त इति च, तदाह धातोर्दस्येत्यादि । सिपि किम्, तिपि अवेत् । दान्तस्य धातोः सिपि रुर्वेत्येतावतैवेष्टसिद्धौ पदान्तानुवृत्तिर्मन्दप्रयोजनेत्याहुः ।