________________
प्रकरणम् ४४ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [२८६ विद । वेद विद्व विद्म । पक्षे वेत्ति वित्त इत्यादि । विवेद विविदतः 'उषविद-' (सू २३४१) इत्याम्पचे विद इत्यकारान्तनिपातनान लघूपधगुणः । विदांचकार। वेदिता । २४६५ विदांकुर्वन्त्वित्यन्यतरस्याम् । (३-१-४१) वेत्तेर्लोट्याम् गुणाभावो लोटो लुक् लोडन्तकरोत्यनुप्रयोगश्च वा निपात्यते। "रुषवचने न विवक्षिते, इतिशब्दात् । २४६६ तनादिकृभ्य उः। (३-१-७६) सनादेः कृजश्व उप्रत्ययः स्यात् । शपोऽपवादः । तनादिस्वादेव सिद्ध कृन्ग्रहणं गणकार्यस्य नित्यत्वे लिङ्गम् । तेन 'न विश्वसेदविश्वस्तम्' इत्यादि इत्यादीति । विदन्ति । वेत्सि वित्थः वित्थ । वेद्मि विद्वः विद्मः । विविदतुरिति । विविदुः । विवेदिथ विविदथुः विविद । विवेद विविदिव विविदिम । आम्पक्ष इति । न लघूपधगुण इत्यन्वयः। कुत इत्यत आह अकारान्तनिपात. नादिति । 'उषविद-' इति सूत्रे विदेत्यकारान्तत्वम् आम्संनियोगेन निपात्यत इत्यर्थः । आमि अतो लोपः । तस्य स्थानिवत्त्वाद् न लघुपधगुण इति भावः । वेदितति । वेदिष्यतीत्यपि ज्ञेयम् । विदांकुर्वन्त्वित्यन्यतरस्याम् । 'कृञ् चानुप्रयुज्यते लिटि' इत्युत्तर मिदं सूत्रम् । इतिशब्दः प्रकारे । एवंजातीयकं वैकल्प्येन प्रत्येतव्यमित्यर्थः । वेत्तेरिति । लुग्विकरणाद् विदधातोः लोटि परे आम्प्रत्ययो निपात्यत इत्यर्थः । लोडन्तेति । आमन्ताद्विदेः लोडन्तकृञ्धातोः अनुप्रयोगश्च निपात्यत इयर्थः । ननु 'विदांकुर्वन्तु-' इति लोटि प्रथमपुरुषबहुवचनस्यैव सूत्रे निर्देशात् कथं लोइन्तसामान्यानुप्रयोग इत्यत आह पुरुषेति । कुर्वन्त्विति प्रथमपुरुषो बहुवचनं च न विवक्षितमित्यर्थः। तयोस्तु नान्तरीयकमुच्चारणमिति भावः । इतिशब्दादिति । तस्य प्रकारवचनस्य लोकप्रयोगानुसारित्वादिति भावः । तनादिकृअभ्य उः । शपोऽपवाद इति । अनेन शविषय एवास्य प्रवृत्तिरिति सूचितम् । 'सार्वधातुके यक्' इत्यतः सार्वधातुकप्रहणस्य 'कर्तरि शप्' इत्यतः कर्तरीत्यस्य चानुवृत्तेरिति भावः । तेनेति । गणकार्यस्यानित्यतया 'श्वसेत्' इत्यत्र अदादिगण कार्य शपो लुङ् न भवतीत्यर्थः । वस्तुतस्तु कृऽग्रहणस्यात्र भाष्ये प्रत्याख्यातत्वाद् लटोऽभावानेते श्रादेशास्तदाह वेत्तेरिति । लोटो लुगिति । 'आमः' इति सूत्रे 'मन्त्रे घस-' इत्यतो लेरित्यनुवर्य श्रामः परस्य ले गिति व्याकुर्वता मतेनेदमुक्तम् । निष्कर्षे तु तेनैव लुगिति बोध्यम् । पुरुषवचन इति । प्रथमपुरुषो बहुवचनं चेत्यर्थः । परस्मैपदमप्यविवक्षितमेवेति केषांचिन्मते कर्मव्यतिहारे तङ्, व्यतिविदांकुरुताम् , व्यतिविदाकुर्वातामित्यादि ज्ञेयम् । तेनेति । विश्वसेदित्यत्र शपो लुगभावः सिद्ध इति भावः । एवमप्यविश्वस्तमित्यत्रेडभावः कथमिति चेदागम