________________
२८८ ]
सिद्धान्तकौमुदी। [ अदादि. माति मुष्टिना' । 'नेर्गद-' (सू २२८५) इत्यत्र नास्य ग्रहणम् । प्रणिमाति, प्रनिमाति । वच १०६३ परिभाषणे । वक्ति वक्तः । अयमन्तिपरो न प्रयुज्यते । बहुवचनपर इत्यन्ये । झिपर इत्यपरे । वग्धि। वच्यात् । उच्यात् । अवोचत् । विद १०६४ ज्ञाने । २४६४ विदो लटो वा । (३-४-८३) वेत्तेलटः परस्मैपदानां णलादयो वा स्युः । वेद विदतुः विदुः । वेत्थ विदथुः वित्यर्थः । उदरमिति । 'उदरं परिमाति मुष्टिना कुतुकी कोऽपि दमस्वसुः किमु' इति नैषधकाव्ये । कोऽपि कुतुकी दमस्वसुः- दमयन्त्याः, उदरं मुष्टिना परिमाति किमु परिगृह्णातीत्यर्थः । नास्य ग्रहणमिति। घुप्रकृतिमाङिति भाष्यादिति भावः । एवं च 'शेषे विभाषाऽकखादौ-' इति णत्वविकल्प इति मत्वाद प्रणिमाति, प्रनिमातीति । ममौ । ममिथ, ममाथ । ममिव । माता । मास्यते । मातु । अमात् । अमासीत् । अमास्यत् । वच परिभाषण । अनिट् । अयमन्तीति । लटि प्रथमपुरुषबहुवचनं नास्तीत्यर्था । बहुवचनपर इति । न प्रयुज्यत इति शेषः । अस्मिन् पक्षे पुरुषत्रये बतुवचनं नास्ति । झिपर इति । न प्रयुज्यत इति शेषः । अस्मिन् पक्षे लिडादिष्वपि बहुवचनं नास्तीति भावः । तत्र लिटि अकिति 'लिव्यभ्यासस्य-' इति संप्रसारणम् , उवाच। किति तु 'वचिस्वाग-' इति संप्रसारणम् , ऊचतुः । उवचिथ, उवक्थ । ऊचिव । वक्ता । वक्ष्यति । वक्तु । अवक् । वच्यादिति विधिलिङि रूपम् । श्राशीलिङि 'वचिस्वपि-' इति संप्रसारणं मत्वाह उच्यादिति । अवोचदिति । लुडि 'अस्यतिवक्ति-' इति लेरङि 'वच उम्' इति भावः । विद ज्ञान इति । अनिट्सु लुग्विकरणस्याग्रहणाद् अयं सेट् । विदो लटो वा । 'परस्मैपदानां णल तुस्-' इत्यादिसूत्रमनुवर्तते । विद इति पञ्चमी, तदाह वेत्तेर्लट इति । विन्दतिविद्यत्योस्तु शेन श्यना च व्यवधानाद् नेते आदेशाः । मा माने । नास्येति । घुप्रकृतिमाङ् इति पाठाद् ङितामेन तत्र प्रहणम् , ततश्च 'शेषे विभाषा-' इति विकल्प एव प्रवर्तत इत्याह प्रणिमाति । प्रनिमाती. त्यादि । वच परिभाषणे उवाच । वक्ता । वक्ष्यति । वक्तु । वक्तात् । अवक् । प्रवक्ताम् । अयमन्तिपर इति । तथा च वचन्ति, वक्ष्यन्ति, वचन्तु, अवचन्, अवोचन् , अवक्ष्यन्नित्येतेऽसाधवः । बहुवचनपर इति । अस्मिन् पक्षे लटि मध्यमे वक्थ । उत्तमे तु वच्मः । लिटि ऊचुः । मध्यमे ऊच । उत्तमे तु ऊचिम । लुटि वक्तारः। लिङि उच्यासुः, वच्यासुरित्यादयोऽप्यसाधवः । झिपर इति । अस्मिस्तु पक्षे वक्थ, वच्मः, ऊच, ऊचिमेत्यादयः साधव इति दिक् । विदो लटो वा । पञ्चमीयं न तु षष्ठी, तेन विद्यतिविन्दत्योरव्यवहितपरस्य