________________
प्रकरणम् ४४] बालमनोरमा-तत्त्वबोधिनीसहिता। [२८७ इति वार्तिकं तद्भाष्यं चेह लिङ्गम् । सस्थानो जिह्वामूलीयः, स नेति ख्यामादेशस्य ख्शादित्वे प्रयोजनमित्यर्थः । 'संपूर्वस्य ख्यातेः प्रयोगो न' इति न्या. सकारः । प्रा १०६१ पूरणे । मा १०६२ माने। अकर्मकः । 'तनौ ममुस्तत्र न कैटभद्विषः' इति माघः । उपसर्गवशेनार्थान्तरे तु सकर्मकः । 'उदरं परि. ख्याञ्' इति सूत्रे ख्या स्थाने 'ख्शाञ्' इति वक्तव्यम् । अस्य शकारस्य पूर्वत्रासिद्धमित्यधिकारे यकारो रक्तव्य इत्युक्त्वा 'प्रयोजनं सौप्रख्ये विधिः' इत्युपक्रम्य 'सस्थानत्वं नमः स्यात्रे' इत्युक्तं वार्तिके । तत्र नमध्याहृत्य नमः ख्यात्रे इति सस्थानत्वं न भवतीति व्याख्यातं भाष्ये । तदिदं वार्तिकं भाष्यं च ख्याधातोरस्य सार्वधातुके एव प्रयोग इत्यत्र ज्ञापकमित्यर्थः । तत्र सस्थानपदं व्याचष्टे सस्थानो जिह्वामूलीय इति । प्राचीनाचार्यसमयादिति भावः । स नेति । स जिहमामूलीयो 'नमः ख्यात्रे' इत्यत्र न भवतीत्येतत् ख्यामा. देशस्य शादित्वविधौ शस्य यत्वविधौ च प्रयोजनमित्यर्थ । ख्शादित्व इति । यत्वविधावित्यस्याप्युपल् क्षणम् । शकार स्थानिकयत्वस्यासिद्धत्वात् । 'शपरे विसर्जनीयः' इति विसर्जनीय इष्टः सिध्यति, जिह्वामूलीयस्त्वनिष्टो न भवतीति भाष्यवार्तिकहृदयम् । व्याधातोरस्यार्धधातुकेऽपि प्रयोगसत्त्वे तु तृजन्ते ख्यातृशब्दे यकारस्य शकारस्थानिःस्वाभावाद् असिद्धत्वाभावात् 'शपरे विसर्जनीयः' इत्यस्याप्रवृत्तौ 'कुप्वोः-' इति जिह्वामूलीयो दुर्वारः स्यात् । ततश्चार्धधातुके सर्वत्र न ख्याधातोः प्रयोग इति विज्ञायते, ज्ञापकस्य सामान्यापेक्षत्वादिति भावः। संपूर्वस्येति । सार्वधातुकेऽपीति भाव । अत्र व्याख्यानमेव शरणम् । एवं च संख्याति इत्यादि नास्तीति फलितम् । संख्यादिशब्दास्तु ख्यात्रादेशस्येति बोध्यम् । मा मान इति। मानं परिमितिरिति भागः, तदाह अकर्मक इति । माति घृतं पात्रेऽस्मिन्निति उदाहरणम् । परिमितं भवतीत्यर्थः, संगृहीतं भवतीति यावत् । अत्रार्थे शिष्ट प्रयोग. संवादं दर्शयति तनौ ममुस्तति । 'तनौ ममुस्तत्र न वैटमद्विषस्तपोधनाभ्यागमसंभवा मुदः' इति नाघकाव्य। तपोधनस्य-नारदस्य, अभ्यागमेन-आगमनेन, संभवा मुदः-संतोषाः, कैटभद्विषः--श्रीकृष्णस्य, तनौ-शरीरे, न ममुः-परिमिता न बभूवुः, आधिक्यान्न संग्रहीता बभूवुरिति यावत् । अर्थान्तरे त्वि- परिच्छेद ख्यात्रे इति । यायमार्धधातुकेऽपि प्रयुज्येत तर्हि तृजन्तेऽस्मिन्परे 'शरपरे विसर्जनीयः' इत्यस्याः वृत्त्या कुप्वोरिति जिह्वामूलीयो दुर्वारः स्यादेवेति तद्भावः । ख्शादित्वे प्रजो जनमिति वार्तिककारायुक्तियाकुप्यतेति भावः । संपूर्वस्येत्यादि । संख्यातीत्यादिप्रयोगो नास्त्येव । संख्येति प्रयोगस्तु ख्याआदेशस्येति न्यासकाराशयः।