________________
२८६ ]
सिद्धान्तकौमुदी। [ अदादि. एति ईतः इयन्ति । ईयात् । ऐषीत् । या १०४१ प्रापणे । प्रापण मिह गतिः । प्रणियाति । यातः यान्ति । २४६३ लङः शाकटायनस्यैव । (३-४-१११) मादन्तात्परस्य ललो झर्जुस् वा स्यात् । अयुः, अयान् । यायात् यायाताम् । यायास्ताम् । अयासीत् । वा १०५० गतिगन्धनयोः। गन्धनं सूचनम् । भा १०५१ दीप्ती । ष्णा १०५२ शौचे । श्रा १०५३ पाके । दा १०५४ कुत्सायां गतौ । प्सा १०५५ भक्षणे । पा १०५६ रक्षणे । पायास्ताम् । अपासीत् । रा १०५७ दाने । ला १०५८ श्रादाने । 'द्वावपि दाने' इति चन्द्रः । दाप् १०५६ लवने । प्रणिदाति, प्रनिदाति । दायास्ताम् । भदासीत् । ख्या १०६० प्रकथने । अयं सार्वधातुकमात्रविषयः । 'सस्थानत्वं नमः ख्यात्रे' ( वा १५६१) सवर्णदीर्घ वी गतीति निर्देश इति भावः । ईयादिति । विधिलिटि श्राशीलिलि च रूपमिदं समानम् । 'स्को:-' इति सलोपः। तत्र विधिलिङि ईयातामित्यादि, आशीषि तु ईयास्तामित्यादि, इति विशेषः। ऐषीदिति । सिचि वृद्धिः। या प्रापण इति । ननु गच्छतीत्यर्थे यातीति कथमित्यत आह प्रापणमिह गतिरिति। णिजर्थस्त्वविवक्षित इति भावः । प्राणियातीति । 'नर्गद-' इति णत्वम् । ययौ । याता। यास्यति । यातु । अयात् अयाताम् । लङः शकटायनस्यैव । 'झर्जुस्' इति 'प्रातः' इति चानुवर्तते, तदाह आदन्तादिति । जुस् वेति । शाकटायनग्रहणाद्विकल्पलाभ इति भावः । एवकारस्तु 'लिट् -' 'लिडाशिषि' इत्युत्तरार्थ इति भाष्ये स्पष्टम् । न च 'लोटो लङ्वत्' इत्यतिदेशाद् यान्तु इत्यत्रापि जुखिकल्पः शङ्कयः, 'नित्यं ठितः' इत्यतो ङित इत्यनुवृत्यैव सिद्धेर्लङ्ग्रहणस्य लवद्भावमादाय प्रवृत्तिनिवारणार्थत्वात् । इदमपि भाष्ये स्पष्ट म् । अयानिति । जुसभावे रूपम् । अयासीत् । ष्णाधातुः षोपदेशः । नस्य त्वेन णत्वनिर्देशः । नाति । नाथात् , स्नेयात् । पा रक्षणे । 'एलिङि' इति सूत्रे 'गातिस्था-' इत्यत्र च पिबतेरेव ग्रहणादेत्त्वसिज्लुको न, तदाह पायास्ताम् । अपासीदिति । दाप् लवने । घुत्वाभावात् 'शेषे विभाषा' इति णत्वविकल्पं मत्वाह प्रणिदाति, प्रनिदातीति । घुत्वाभावादाशीर्लिडि एत्वम्, लुडि लुक् च नेति मत्वाह् दायास्तामिति । अदासीदिति च । ख्या प्रकथने । अयं सार्वधातुकमात्रविषय इति। मात्रशब्दोऽवधारणे । सार्वधातु वास्य ख्याधातोः प्रयोगः, न त्वार्धधातुक इत्यर्थः । कुत इत्यत अाह सस्थानत्वमिति । 'चक्षिङः निष्ठा ज्ञेया। तथा चोदये दिक्पराधीनवृत्तिस्तरणिर्नेत्यर्थः सुगम इति । प्रणिदातीति। 'शेषे विभाषा-' इति णत्वविकल्पः । अदासीदिति । अघुत्वान्न सिज्लुक् । नमः