________________
प्रकरणम् ४४ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [२८५ यएन । तथा च भट्टिः-- 'ससीतयो राघवयोरधीयन्' इति । वी १०४८ गतिन्याप्तिप्रजनकान्त्यसनखादनेषु । प्रजनं गर्भग्रहणम् । असनं क्षेपणं । वेति वीतः वियन्ति । वेषि । वेमि । वीहि । अवेत् प्रवीताम् अवियन् । अडागमे सत्यनेकारवाद्यणिति केचित् । अन्यन् । अत्र ईकारोऽपि धात्वन्तरं प्रश्लिष्यते । लुका लुप्तत्वाद् ‘घुमास्था--' इति ईत्त्वं न । अध्यगाताम् । अध्यगाम् अध्यगाव । अध्यैष्यत् । केचित्विति । आर्धधातुके इत्यधिकारे 'इणो गा लुङि' इति सूत्रे एतद्वार्तिकपाठस्य भाष्ये दर्शनात्तदधिकारोक्तानामेव कार्याणामुपस्थितत्वादिति भावः । तन्मते यण नेति । 'इणो यण्' इत्यस्य आर्धधातुकाधिकारस्थत्वाभावान्नातिदेश इत्यर्थः । तेन झोऽन्तादेशे इयढि सवर्णदीर्घ अधीयन्तीत्यायूह्यम् । राघवयोरधीयन्निति । 'अधीगर्थ-' इति षष्ठी । राघवौ स्मरन्नित्यर्थः । अधिपूर्वाद् इग्धातोलटः शतरि शपो लुकि इकारस्य इयङि सवर्णदीर्घ अधीयदिति शत्रन्तात् सुवुत्पत्तौ सौ रूपम् । वी गतीति । 'अजेयं घनपोः' इति सूत्रभाष्यरीत्या अस्य आर्धधातुके नास्ति प्रयोग इति शब्देन्दुशेखरे स्थितम् । वियन्तीति । एकाच्वाद्यणभावादियडिति भावः । लोटि वेतु, वीतात् वीताम् वियन्तु-इति सिद्धवत्कृत्याह वीहीति । हेरपित्त्वेन ङित्त्वान्न गुण इति भावः । वीतात् वीतम् वीत । वयानि वयाव वयाम । लङयाह अवेदिति । अविर्यानति । वी अन् इति स्थिते परत्वादडागमात् प्रागियङि कृते अडागम इति भावः । मतान्तरमाह अडागमे सतीति । लावस्थायामडिति पक्ष इयडं बाधित्वा अनेकाच्वाद् यणि अव्यन्निति केचिदाहुरित्यर्थः । केचिदित्यस्वरसं सूचयति । तद्वीजं तु कृतेऽप्यटि यणि कर्तव्ये श्राभीयतया अटोऽसिद्धत्वादनेकाच्त्वा. भावाद्यणभावादियवोचित इति शन्देन्दुशेखरे विस्तरः । अत्रेति । वी ई इति णामुपस्थितत्वादतिदेश इति भावः । अधीयन्निति । स्मरन्नित्यर्थः । राघवयोरित्यत्र 'अधीगर्थदयेशा कर्मणि' इति षष्टी । वी गति । अवियन्निति । अडागमात् परत्वादियङ् । अडागमे सतीति । कृताकृतप्रसङ्गित्वमात्रेण अटो नित्यत्वादिति भावः । अतएवापरितोषात् 'असिद्धवदत्राभावात्' इति समानाश्रये यणि कर्तव्ये अटोऽसिद्धत्वादियठेवोचित इत्याशयेन वा केचिदित्युक्तम् । लावस्थायामेवाडागम इति पंक्षे तु यणेवेति बोयम् । ईकारोऽपीति । प्रयुञ्जते च 'न हि तरणिरुदीते दिक्पराधीनवृत्तिः' इति, व्याख्यातं च मनोरमायाम्-कर्मव्यतिहारे तङ् । न च 'न गतिहिंसार्थेभ्यः' इति निषेधः शङ्कथः, उत्पूर्वस्याविर्भावार्थत्वादिति । अत्र वदन्तिव्यतिशब्दं विना कर्मव्यतिहारकल्पनं क्लेशावहम् । परकीयकर्म च कर्मव्यतिहारेऽ. पेक्ष्यते तच्चात्र नोपात्तम् । परस्परकरणं तु न संभवत्येव । ततश्चोदीते इति भावे