________________
सिद्धान्तकौमुदी।
[अदादि
२८४] धिपूर्वः । 'अधीगर्थदयेशाम्-' (सू ६१३) इति लिङ्गात् । अन्यथा हि 'इगर्थ-' इत्येव ब्रयात् । 'इण्वदिक इति वक्तव्यम्' ( वा १५०७)। अधियन्ति । अध्यगात् । केचित्तु प्रार्धधातुकाधिकारोक्नस्यैवातिदेशमाहुः, तन्मते ष्टेति । अधि अ गा स् त इत्यत्र आकारस्य ईकारे यणि सिचः षत्वे तकारस्य ष्टुत्वेन ट इति भावः । 'गातिस्था-' इति न सिज्लोपः, परस्मैपदाभावात् । अध्यगी. षाताम् अध्यगीषत । अध्यगीष्ठाः अध्यगीषाथाम् अध्यगीढ्वम् । अध्यगीषि अध्य. गोवहि अध्यगीष्महि । गाडभावपक्षे आह अध्यष्टेति । अधि आ इ स् त इति स्थिते इकारस्य गुणे आटो वृद्धौ यणि षत्वष्टुत्वे इति भावः । अध्यैषाताम् अध्यै. षत । अध्यैष्ठाः अध्यैषाथाम् अध्यैवम् । 'धि च' इति सलोपः। अध्यषि अध्यैः ध्वहि अध्यैष्महि । लुड्याह अध्यगीष्यतेति । 'विभाषा लुब्लुङोः' इति गाङादेशे स्ये तस्य 'गाङ्कुटादिभ्यः-' इति ङित्त्वे 'घुमास्था-' इति ईत्त्वे अटि यणि षत्वमिति भावः । अध्यगीष्येतामित्यादि । गाडभावपक्षे आह अध्यैष्यतेति । अध्यध्येतामित्यादि । इक स्मरणे । अयमपीति । इधातुवदयमपि धातुनित्यमधिपूर्वक इत्यर्थः । ननु धातुपाठे इङमधिकृत्य नित्यमधिपूर्व इति वचनाद् भूवादिसूत्रभाष्याच्च इगे नित्यमधिपूर्वकत्वं युक्तम् । अस्य तु तथात्वे किं प्रमाणमित्यत आह अधीगथेति । तत्र हि अधीगर्थेत्यनेन स्मरणार्थकधातुर्विवक्षितः। इग्धातोरधिपूर्वकत्वा. भावेऽपि स्मरणार्यकत्वे इगर्थेत्येतावतैव स्मरणार्थकधातुलाभात् तत्र अधीति व्यर्थ स्यात् । अत इग्धातुरयं नित्यमधिपूर्वक एव स्मरणार्थक इति विज्ञायत इत्यर्थः । इरावदिक इति । षष्ठ्यन्ताद्वतिः । इणो यत् कार्यम् 'इणो यण' इत्यादि, तद् इको भवतीत्यर्थः । अध्यति, अधीत इति सिद्धवत्कृत्य आह अधियन्तीति । अन्तादेशे इयङपवादः । 'इणो यण' इति यणिति भावः । अध्येषि अधीथः अधीथ । अध्यमि अधीवः अधीमः । अधीयाय । अतुसि तु द्वित्वे कृते अधि इ इ अतुस् इति स्थिते 'इणो यण' इति द्वितीयस्य इकारस्य यणि प्रधमस्य इकारस्य 'दीर्घ इणः किति' इति दीर्घे सवर्णदीपे, अधीयतुः अधीयुः । श्रधीययिथ, अधीयेथ अधीयथुः अधीय । अधीयाय, अधीयय अधीयिव अधीयिम । अध्येता। अध्येष्यति । अध्यतु, अधीतात् अधीताम् अधियन्तु । अधीहि, अधीतात् अधीतम् अधीत । अध्ययानि अध्ययाव अध्ययाम । अध्येत् अध्येताम् अध्यायन् । अध्येः अध्यतम् अध्येत । अध्यायम् अध्यैव अध्यम-इति सिद्धवत्कृत्य लुण्याह अध्यगादिति । इण्वत्त्वाद् 'इणो गा लुङि' इति गादेशे 'गातिस्था-' इति सिचो त्याहुः । केचित्त्विति । आर्धधातुकाधिकारे वार्तिकपाठात्तदधिकारोक्तानामेव कार्या