________________
प्रकरणम् ४४] बालमनोरमात्तत्त्वबोधिनीसहिता। [२८३ स्यात् । २४६१ गाङ्कुटादिभ्योऽञ्णिन्डित् । (१-२-१) गालादेशास्कुटादिभ्यश्च परेऽम्णितः प्रत्यया ठितः स्युः। २४६२ घुमास्थागापाज. हातिसां हलि । (६-४-६६) एषामात ईत्स्याद् हलादौ विकल्यार्धधातुके । अध्यगीष्ट, अध्यैष्ट । अध्यगीप्यत, अध्यैष्यत । इक् १०४७ स्मरणे । अयमप्य. षोड्वम् । अध्येषीय अध्येषीवहि अध्येषीमहि । लुङि प्राटि अधि श्राइ त इति स्थिते विभाषा लुङ्लुङोः । शेषं पूरयति इङो गाङ् वा स्यादिति । 'इङश्च' इत्यतो 'गाङ् लिटि' इत्यतश्च तदनुवृत्तेरिति भावः । सिचि अधि अ गा स् त इति स्थिते गाकुटादिभ्यो। ञ्च एच ञ्णौ, तौ इतौ यस्य स मिणत्, स न भवतीत्यणित् । गाङ च कुटादयश्चेति द्वन्द्वात्पञ्चमी । गाङिति उकारा. नुबन्धाद् 'इणो गा लुङि' इत्यस्य न ग्रहणमित्युक्तम् । नापि 'गाङ् गतौ' इत्यस्यात्र प्रहणम् , तत्र डकारस्यात्मनेपदप्रापणेन चरितार्थत्वात् । इडादेशस्य गाङो कारो नात्मनेपदप्रापणेन चरितार्थः, स्थानिवत्त्वेनैव तत्सिद्धेः, तदाह गाङादेशादिति । एवं च सिचः ङित्त्वे आह घुमास्था । 'षो अत्तकर्मणि' इत्यस्य कृतात्त्वस्य निर्देशः । घु मा स्था गा पा जहाति सा एषां द्वन्द्वात्षष्ठी । 'आर्धधातुके' इत्यधिकृतम् । 'पातो लोप इटि च' इत्यत आत इति 'ईद्यति' इत्यत ईदिति 'अनुदात्तोपदेश-' इत्यतः क्ङिति इति चानुवर्तते, तदाह एषामित्यादिना । अध्यगीझस्य अत् । लङ् मध्यमे तु अध्यथाः । अध्ययाथाम् । अध्यध्वम् । अध्येषीष्टेति । लिङः सीयुट् । अध्येषीयास्ताम् । अध्येषीरन् । गाकुटादिभ्यो । इह गाङ् गातावित्यस्य न ग्रहणम् , तर्थतया ङकारानुबन्धस्य तत्र चरितार्थत्वात् । आदेशडकारस्तु अचरितार्थः, स्थानिवद्भावेनैव तङः सिद्धत्वादत आह गाङादेशादिति । कुटादिस्तुदाद्यन्तर्गणः । केचित्तु कुट आदिर्येषां ते कुटादयः, कुटस्य श्रादिः कुटादिः; कुटादिश्च कुटादयश्च कुटादय इति समासद्वयमाश्रित्य कुटपूर्वस्य लिखधातोरपि ग्रहणाल्लिखनमिति प्रयोगः सिद्ध इत्याहुः। तच्च 'रलो व्युपधात्-' इति सूत्रस्थेन लिखित्वा लेखित्वा लिलिखिषति लिलेखिषति इति वृत्तिग्रन्थेन, 'शकुनिष्वालेखने' इति सौत्रप्रयोगेण च विरुध्यते । अञ्णिदिति किम् , घभि कोटः । पोटः। णलि चुकोट । पुपोट । घुमास्था। 'दीछो युडचि-' इत्यतः विडतीत्यनुवर्तते । आधधातुक इति चाधिक्रियत एव । क्छिति किम् , दाता । धाता। हलादौ किम् , ददतुः । ददुः । अन्यथा आतो लोपात्परत्वादीत्वं स्यात् । श्रार्धधातुके किम् , मातः । माथः । अध्यगीष्टेति । सिचो ङित्त्वादीत्वम् । इक् स्मरणे । ककार इह 'इण्वदिकः' इति विशेषणार्यः । एरित्युक्ते तु इट किट कटीत्यत्र प्रश्लिष्टस्य ईधातोरपि प्रहणं स्यादि