________________
प्रकरणम् ४४ ]
बालमनोरमा-तत्त्वबोधिनीसहिता । [ २८१
1
( सू २२२३ ) इति सिचो लुक् । श्रगात् श्रगाताम् अगुः । इङ् १०४६ अध्ययने । नित्यमधिपूर्वः । श्रधीते श्रधीयाते श्रधीयते । २४५६ गाङ् लिटि । ( २-४-४६ ) इङो गाङ् स्याल्लिटि लावस्थायां विवक्षिते वा । श्रधिजगे श्रधिजगाते श्रधिजगिरे । श्रध्येता । श्रध्येष्यते । श्रध्ययै । गुणायादेशयोः कृतयोरुपसर्गस्य यत् । 'पूर्वं धातुरुपसर्गेण -' इति दर्शनेऽन्तरङ्गस्वाद् गुणात्पूर्व
अध्ययन इति । श्रधिरुपरिभावे । उपरिभावश्च पठने नियमपूर्वकत्वमिति भूवादिसूत्रे भाष्ये स्पष्टम् । नित्यमधिपूर्व इति । धातुपाठे वचनमिदम् । अधीते इत्यत्र धातुरुपसर्गं न व्यभिचरतीति भूवादिसूत्रे भाष्ये । अधीत इति । 'सार्वधातुकमपित्' इति ङित्त्वाद् गुणनिषेधे सवर्णदीर्घः । श्रजादौ तु इयङ्, तदाह अधीयात अधीयते इति । अधीषे अधीयाथे अधीध्वे । श्रधीये अधीव अधीमहे । गाङ् लिटि । इङ इति । 'इङश्च' इत्यतस्तदनुवृत्तेरिति भावः । स्थानिवत्त्वादेव ङित्त्वे सिद्धे ङित्करणं 'गाङ्कुटादिभ्यः -' इत्यत्र 'इणो गा लुङि' इत्यस्य ग्रहणाभावार्थमिति भाष्यम् । ननु कृते गाङादेशे द्वित्वे अभ्यासजश्त्वे आल्लोपे अधिजगे इति रूपं वक्ष्यति । तदयुक्तम्, 'द्विर्वचनेऽचि' इति गाङादेश - निषेधाद् गाङादेशात् प्रागेव द्वित्वे सति उत्तरखण्डस्य गादेशे अधीगे इति रूपा - पत्तेरित्यत आह लावस्थायां विवक्षित वेति । तत्र लावस्थायामिति वार्तिकम गाङादेशात् प्रागेव 'द्विर्वचनेऽचि' इति सूत्रं न प्रवर्तते, द्वित्वनिमित्ताचोऽभावात् । विवक्षिते इति भाष्यमते तु सुतरां 'द्विर्वचनेऽचि' इति न प्रवर्तते, अनैमित्तिकत्वादिति भावः । अधिजगिरे इति । अधिजगिषे अधिजगाथे अधिजगिध्वे । अधिजगे श्रधिजगिव अधिजगिमहे । लोटि अधीताम् अधीयाताम् अधीयताम् । अधीष्व अधीयाथाम् अधीध्वम् इति सिद्धवत्कृत्य आह अध्ययै इति । तत्र प्रक्रियां दर्शयति गुणायादेशयोरिति । 'पूर्वं धातुः साधनेन युज्यते पश्चादुपसर्गेण' इति 'सुट्कात्पूर्वः' इति सूत्रसिद्धान्तादिति भावः । तथा च इट एत्त्वे आि वृद्धौ अधि इ ऐ इति स्थिते गुणे अयादेशे यणिति फलितम् । ननु 'पूर्वं धातुरुपसर्गेण युज्यते पश्चात्साधनेन' इत्यपि पक्षः 'सुट्कात्पूर्वः' इति सूत्रभाष्ये स्थितः । तथा च अधि इ ऐ इति स्थिते पूर्वं सवर्णदीर्घे सति गुणायादेशयोः कृतयोः श्रधये
1
प्रश्लिष्टस्य इधातोराशीर्लिङि इदं रूपम् । वी गतीत्यत्र ईकारोऽपि धात्वन्तरं प्रश्लिष्यत इति मते तु विध्यादिलिञयपि भवत्येवेति बोध्यम् । गाङ् लिटि । लावस्थायामिति । वार्तिकमते तु एकादेशात्प्रागेव गाङादेशे 'द्विर्वचनेऽचि' इति सूत्रं न प्रवर्तते द्वित्वनिमित्ताचोऽभावात् । विवक्षित इति । भाष्यमते तु सुतरां न प्रवर्तते, अनै