________________
२८० ] सिद्धान्तकौमुदी। [अदादिइणोऽणो हस्वः स्यात् किति बिकि । निरियात् । 'उभयत पाश्रयणे नान्तादिवत्' । अभीयात् । अणः किम्-समेयात् । 'समीयात्' इति प्रयोगस्तु भौवादिकस्य । २४५८ इणो गा लुङि । (२-४-४५) 'गातिस्था-' पूर्वसूत्रेषु तदभावादनुवृत्तेरसंभवात् किति लिङीत्येव सिद्धश्च । कितीति तु नानुवर्तते, इण आर्धधातुकलिडो ठित्त्वाभावात् । नन्वभीयादित्यत्रापि ह्रखः स्यादित्यत आह उभयत इति । अत्र एकादेशस्य ईकारस्य पूर्वान्तत्वे उपसर्गानुप्रवेशादिण्धातुत्वं न संभवति । परादित्वेन इराधातुत्वाश्रयणे तु नोपसर्गात्परत्वम् , उपसगैकदेशस्य इकारस्य ईकारात्मना सत्त्वेन अभ् इत्यस्य उपसर्गत्वाभावात् । एकादेशस्य आदिवत्त्वमाश्रित्य इण्धातुत्वम्, अन्तवत्त्वमाश्रित्य तस्य उपसर्गानुप्रवेशश्चत्यपि न संभवति । पूर्वपरशब्दाभ्यां अन्तादिशब्दाभ्यां च विरोधस्य पुरस्स्फूर्तिकतया विरुद्धातिदेशद्वयस्य युगपदसंभवादित्यर्थः । इदं च अन्तादिवत्सूत्रे भाष्ये स्पष्टम् । न च अभ् इति भान्तस्य एकदेशविकृतन्यायेन उपसर्गत्वाद् ईकारस्य परादिवत्त्वे ह्रखो दुरि इति वाच्यम् , लक्ष्यानुसारेण क्वचिद् एकदेशविकृतन्यायानाश्रयणादिति शब्देन्दुशेखरे विस्तरः। समयादिति । आ इयात् एयात् । समेयादित्यत्र एकारस्य अनरुत्वान्न ह्रखः । प्रहणकसूत्रादन्यत्र पूर्वेणैव णकारेण प्रत्याहाराश्रयणादिति भावः । तर्हि क्वचित् समीयादिति प्रयोगः कथमित्याशङ्कयाह समीयादिति प्रयोगस्तु भौवादिकस्येति । 'इट किट कटी गती' इति प्रश्लिष्टस्य इधातोराशीलिङि 'अकृत्सार्वधातुकयोदीघः' इति दी? बोध्य इति भावः । लुङि विशेषमाह इणो गा लुङि। इरधातोः गा इत्यादेशः स्याल्लुङीति सूत्रार्थः स्पष्टः । अगा स् त् इति स्थिते आह गातिस्थेतीति । लुकि ऐष्यत् । इङ् दिति । 'अकृत्सार्व-' इति दीर्घः । एतेलिङि । इहार्धधातुक इति स्वरूपकथनार्थ प्रक्षिप्तम् , किति लिङीयेतावतवेष्टसिद्धेः । उभयत प्राश्रयण इति । अन्तादिशब्दाववयवविशेषवाचिनौ । तत्र यदि पूर्वस्यावयवबुद्ध्या एकादेश प्राश्रीयते तदा तस्यैव परस्य कथमादिवद्भावः स्यात् । एवं परस्यादिवत्त्वे पूर्वस्यान्तवद्भावो न स्यादेकस्योभयापेक्षया पारतन्त्र्यविरोधादिति भावः । नन्वेवं रामौ इत्यस्य 'सुप्तिङन्तम्-' इति पदत्वं न स्यात् , परादित्वे रामेति प्रकृतेरभावात् । 'यस्मात्प्रत्ययविधिस्तदादेस्तदन्तस्य प्रहणम्' इति स्वीकारादाम इत्यस्य प्रकृतित्वात् , पूर्वान्तत्वे तु परत्र प्रत्ययाभावात् । अत्राहुः-पूर्व पदसंज्ञा पश्चादेकादेश इति नोक्तदोषः । इह च ज्ञापकं 'सुपिसूति. समाः' इति । विध्यादौ समीयादिति न भवत्येव । आशीलिङि तु 'अकृत्सार्व-' इति दीर्घ कृतेऽपि ह्रखत्वेन भाव्यमित्याशङ्कयाह भौवादिकस्येति । इटकिटकटीत्यत्र