________________
प्रकरणम् ४४] बालमनोरमा-तत्त्वबोधिनीसहिता। [२७६ इयडोऽपवादः । यन्ति । इयाय । २४५६ दीर्घ इणः किति । (७-४-६६) इणोऽभ्यासस्य दीर्घः स्वास्किति निटि । ईयतुः ईयुः। इसयिथ, इयेथ । ऐत् ऐताम् भायन् । इयात् ईयात् । २४५७ एतेलिङि । (७-४-२४) उपसर्गापरस्य प्रचीत्यनुवृत्तस्य अाधिकारलब्धाङ्गाक्षिप्तप्रत्ययविशेषणत्वात्तदादिविधिरित्यभिप्रेत्य शेषपूरणेन सूत्रं व्याचष्टे अजादौ प्रत्यये पर इति । इयडोऽपवाद इति । इयङि प्राप्ते एव तदारम् मादिति भावः । गुणवृद्धी तु परत्वादस्य बाधिके । यथाअयनम् . आयकः । यन्तीति । एषि इथः इथ । एमि इवः इमः। इयायेति । द्वित्वे साते उत्तरखराड द्वौ आयादेशे 'श्रभ्यासस्यासवर्णे' इति इयङ। अतुसि तु द्वित्व कित्त्वाद् गुणाभा। इ इ अतुस् इति स्थिते 'इणो यण' इत्युत्तरखण्डस्य यणि इयतुरिति स्थिते दीधे इणः । 'अत्र लोपः-' इत्यतः अभ्यासस्येति व्यथो लिटि' इत्यतो लिटीनि चा पुवर्तते, तदाह इणोऽभ्यासस्येति । ईयतुरिति । भारद्वाजनि यमात्थलि डिति मत्वा आह इययिथ, इयेथेति । ईयथुः ईय । इयाय, इयय ईयिव ईयिम । एता। एष्यति । एतु, इतात् इताम् यन्तु । इहि, इसात् इतम् इत । अयानि अयाव अयाम । ऐदिति । लडि तिप इकारलोपे इकारम्य गुणे अटो वृद्धिः। प्रायन्निति । झेरन्तादेशे इकारलोपे इ अन् इति स्थिते 'इगो या.' इति यणि कृते तस्याभीयत्वेनासिद्धत्वादाडिति भावः । ऐः ऐतम् ऐत । प्रायम ऐव ऐम । विधिलिब्याह इयादिति । इयाताम् इयुरित्यादि। आशीर्लिङ याह ईयादिति । 'अकृत्सार्वधातुकयो:-' इति दीर्घ इति भावः । ईयास्तामित्यादि । एतेलिङि । 'उपसर्गाद्धस्व ऊहतेः' इत्यत उपसर्गाद् हस्व इति, 'केःणः' इत्यतः अण इति, 'अयङ् यि विति' इत्यतः कितीति चानुवर्तते, तदाह उपसर्गात्परस्येत्यादि । इह आर्धधातुके इति प्रामादिकम् । ईडागमे कृते झलादित् भावादिति भावः । इण् गतौ । इयङोऽपवाद इति । येन नाप्राप्तिन्यायेनेति भावः । गुणवृद्धी तु परत्वादस्य बाधिके । अयनम् । श्रायकः । दीर्घ इणः किति । 'अत्र लोपोऽभ्यासस्य' इत्यतोऽभ्यासस्येत्यनुवर्तते । 'व्यथो लिटि' इत्यतो लिटीति च । किति किम्, इयाय । अत्र वदन्ति-इह दीघे कृतेऽपि 'अभ्यासस्यासवणे' इतीयका रूपसिद्धेः कितीति व्यर्थम् । न च दीर्घस्येयडि दीर्घविधानं व्यर्थमिति वाच्यम् , इयतुः ईयुरित्यत्र 'वार्णादाङ्गं बलीयः' इति यणि कृते दीर्घविधेरावश्यकत्वात् । किं च लिटीत्यनुवर्तमानमपीह व्यर्थमेव, व्यावाभावादिति । एता । एष्यति । एतु । इतात् । इताम् । यन्तु । इहि । उत्तमे तु । अयानि । अयाव। अयाम । लङ्मध्यमे ऐः । ऐतम् । ऐत । उत्तमे तु आयम् । ऐव। ऐम । ईया