________________
२७८ ]
सिद्धान्तकौमुदी ।
[ श्रदादि
(२-४-५३) उवाच ऊचतुः ऊचुः । उवचिथ, उवक्थ । ऊचे । वक्ता । ब्रवीतु, व्रतात् । 'ढिच्च पिन्न' इत्यपित्वादीयन । प्रवाणि वै । प्रयात् । उच्यात् । 'अस्यतिवक्ति-' ( सू २४३८ ) इस्य । २४५४ वच उम । ( ७-४-२० )
अङि परे । अवोचत् अवोचत ।
अथ शास्यन्त : परस्मैपदिनः । इङ् स्वात्मनेपदी । इण् १०४५ गतौ । एति इतः । २४५५ इणो यण् । ( ६-४-८१) अजादौ प्रत्यये परे । arge इत्यर्थः । इकार उच्चारणार्थः । उवाचेति । प्रकिति द्वित्वे कृते 'लिक्यभ्यासस्य-' इति संप्रसारणमिति भावः । ऊचतुरिति । किति द्वित्वात्प्राग् 'वचिस्वपियजादीनाम् -' इति संप्रसारणे द्वित्वे कृते हलादिशेषे सवर्णपरत्वाद् ‘अभ्यासस्यासवर्णै’ इत्युवङभावे सवर्णदीर्घ इति भावः । वचिरनिट्सु परिगणितः । तस्य भारद्वाजनियमात्थलि वेट्, तदाह उवचिथ, उवक्थेति । इडभावे 'चोः कुः ' 'ब्रुव ईट्' इत्यत्र 'नाभ्यस्तस्य -' इत्यतः सार्वधातुकप्रहणस्याप्यनुवृत्तेरीड् न । ऊचथुः ऊच । उवाच, उवच ऊचिव ऊचिम । क्रादिनियमादिट् । ऊचे इति । ऊचाते ऊचिरे । ऊचिषे ऊचाथे ऊचिध्वे । ऊचे ऊचिवहे ऊचिमहे । वक्तेति । वच्या - देशे इण्निषेधः । वक्ष्यति, वक्ष्यते । ब्रवीतु व्रतादिति । ननु तिबादेशस्य तातङः पिवाद् 'ब्रुव ईट्' इति ईडागमः स्यादित्यत्र माह ङिच्चेति । ब्रूताम् ब्रुवन्तु । ब्रूहि, ब्रूतात् ब्रूतम् ब्रूत । ब्रवाणीति । श्रटः पित्त्वेन ङित्त्वाभावाद न गुणनिषेध इति भावः । ब्रवाव ब्रवाम । ब्रूताम् ब्रुवाताम् ब्रुवताम् । ब्रूष्व ब्रुवाथाम् ब्रूध्वमिति सिद्धवत्कृत्य आह वै इति । श्रटः पित्त्वेन ङित्त्वाभावाद् गुणः । ब्रवावहै ब्रवामहै । लङि अब्रवीत् अब्रूताम् अब्रुवन् । श्रब्रवीः अब्रूतम् अब्रूत । अब्रवम् अब्रूव अब्रूम । विधिलिङयाह ब्रयादिति । ब्रूयातामित्यादि । आशीर्लिब्याह उच्यादिति । वच्या देशे 'वचिखेपि-' इति संप्रसारणमिति भावः । उच्यास्ताम् इत्यादि । श्रात्मनेपदे श्राशीर्लिङि वक्षीष्ट वतीयास्ताम् इत्यादि । श्रकित्वान्न संप्रसारणम् । लुङि सिचि वच्यादेशे श्रवच् स् त् इति स्थिते श्राह श्रस्यतीति । श्रवच् अ त् इति स्थिते वच उम् । शेषपूरणेन सूत्रं व्याचष्टे अङि पर इति । 'ऋदृशोऽङि-' इत्यतस्तदनुवृत्तेरिति भावः । मित्त्वादन्त्य दचः परः, श्रद्गुणः, तदाह श्रवोचदिति । श्रवक्ष्यत् श्रवक्ष्यत ।
>
इङ् त्विति । 'इब् अध्ययने' इति धातुस्तु ङित्त्वादात्मनेपदीत्यर्थः । इण् गताविति । 'इयो यण' इत्यादौ विशेषणार्थो णकारः । एतीति । शपो लुकि तिपः पित्वेन ङित्त्वाभावाद् गुणः । इत इति । श्रपित्त्वेन ङित्त्वान्न गुणः । इ अन्तीत्यत्र ङित्त्वाद् गुणाभावे इयङि प्राप्ते इणो यण् । 'अचि श्नुधातु - ' इत्यतः