________________
२७४ ]
सिद्धान्तकौमुदी। [ अदादिभवन्ति । नुशन्दस्य द्विस्वम्, यस्वस्सासिदत्वात् । 'पूर्वत्रासिद्धीयमद्विवचने' (4 १२७) इति स्वनित्यम्। 'उभौ सान्यासस्य' (सू २६०६) इति विशात् । ऊर्जुनाव उMनुवतुः ऊर्जुनुवुः । २४४७ विभाषोर्णोः । (१-२-३) पश्चमी । न् , द्, र, एषां द्वन्द्वः, तदाह अचः परा इति । ननु णु इत्यस्य द्वित्वे खण्डद्वयेऽपि णकारः श्रूयतेत्यत आह नुशब्दस्य द्वित्वमिति । णत्वस्येति । धातुपाठे ऊर्गु इति नकारस्य कृतणत्वस्य निर्देशः, द्वित्वे कर्तव्ये तस्य णत्वस्यासिद्धत्वादित्यर्थः । लिङ्गादिति । 'उभौ साभ्यासस्य' इत्यस्यायमर्थःसाभ्यासस्यानितेरुपसर्गस्यानिमित्तात्परौ खण्डद्वयगतौ नकारौ णत्वं प्राप्नुत इति । प्राणिणत् इत्युदाहरणम् । अत्र 'अनितेः' इति णत्वे कृते 'पूर्वत्रासिद्धीयमद्विवचने' इति णत्वस्यासिद्धत्वाभावमाश्रित्य णि इत्यस्य द्वित्वादेव खण्डद्वये णकारश्रवणसिद्धेः 'उभौ साभ्यासस्य' इति वचनं 'पूर्वत्रासिद्धीयमद्विर्वचने' इत्यस्यानित्यतां गमयतीत्यर्थः । ऊर्णनावेति । नुशब्दस्य द्वित्वे पूर्वनकारस्य 'रषाभ्याम्-' इति णत्वम् । द्वितीयस्य तु 'अटकुप्वाङ्' इति न णत्वम् । 'उभौ साभ्यासस्य' इति लिङ्गादेव । विभाषोर्णोः । 'गाकुटादिभ्यः-' इत्यतो डिदित्यनुवर्तते, 'विज इट्' इत्यत प्रकृतेऽनुपयोगस्तदेतदाह अचः परा इति । उन्दिदिषति इन्टिदिषति अड्डिडिषति । अर्चिचिषति । 'न न्द्राः' इति किम् , ईक्षतेः सनि ईचिक्षिषते। संयोगादयः किम् , प्राणिणिषति । अरिरिषति । अचः पराः किम् , इन्द्रीयितुमिच्छतीति क्यजन्तात्सनि इन्दिदीयिषति । इह नकारस्य द्वित्वाभावेऽपि दकारस्तु द्विरुच्यत एव । अचः परत्वाभावात् । नुशब्दस्येति । उपदेशे नकार एव । णत्वं तु 'रषाभ्याम्-' इत्यनेनेति भावः। पूर्वत्रासिद्धीयमिति पत्र द्विवेचनशब्देन षाष्ठमाष्टमिकं चोभयं गृह्यते । तत्र षाष्ठस्य ऊढिमाख्यद् औडिढद् इत्युदाहरणम् । श्राष्टमिकस्य तु द्रोग्धा द्रोग्धा द्रोढा द्रोढा इति । इहि त्रिपदीस्थं घत्वढत्वादिकं द्विवचने सिद्धमेव । असिद्धत्वे तु त्रिपादीस्थ. कार्यात्पूर्वमेव द्रोड् ता इत्यस्य द्वित्वे पश्चाद् ‘वा दुह-' इह घत्वढत्वयोः प्रवृत्तौ द्रोग्धा द्रोढेत्यपि द्विर्वचनं कदाचित्स्यात् । न तु द्रोग्धा द्रोग्धेति समानजातीयस्यैव नियमेन द्विवचनं सिध्यति । किंच षट् सन्त इत्यत्र डस्य चर्वे टकारस्य द्वित्वं 'पूर्वत्रासिद्धीयमद्वित्वे' इत्युक्तरिति मनोरमादावुक्तम् । अत एव सुध्युपास्य इत्यत्र धस्य जश्त्वेन दकारे व्यक्तिभेदाद्दकारस्यापि द्वित्वं सुवचमेवेत्याहुः । अनित्यमिति । अत एव हतिशब्दस्य द्वित्वमौजिढदित्यपि नामधातृषु वक्ष्यति । उभौ साभ्यासस्येति । अनितेरित्यनेन णत्वं कृत्वा द्विवचने कृते प्राणिणत् प्राणिणिषतीति सिद्धमिति सूत्रमिदं ज्ञापकमित्यर्थः । एवं च प्रणिनायेत्यादौ द्वितीयस्य णत्वाभावः सिद्धः । विभाषोर्णोः।