________________
प्रकरणम् ४४ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [२७३ अरविष्यत् । 'तु' इति सौत्रो धातुर्गतिवृद्धि हिंसासु । अयं च लुग्विकरण इति स्मरन्ति । तवीति, तौति । तुवीतः, तुतः । तोता । तोष्यति । णु १०३५ स्तुती। नौति । नविता । टुच १०३६ शब्दे । क्षौति । चविता । षणु ३०३७ तेजने । पणौति । चणविता । इणु १०३८ प्रसवणे । स्नौति । सुष्णाव । सविता ।
यात् । ऊर्गुन् १०३६ आच्छादने । २४४५ ऊर्णोतेर्विभाषा । (७-३-६०) वा वृद्धिः स्याद्धलादौ पति सार्वधातुके । ऊौति, ऊर्णोति ऊर्णतः ऊर्युवन्ति । ऊर्गुते ऊर्गुवाते । ऊर्गुबते । 'ऊर्णोतेराम्नेति वाच्यम्' (वा २८०२ ) २४४६ नन्द्राः संयोगादयः। (६-१-३) अचः पराः संयोगादयो नदरा द्विर्न बोध्यम् । ननु धातुठे तुधातोरदर्शनाद् धातुत्वाभावात्कयं ततः सार्वधातुकस्य
विधिरित्यत अाह तु इति सौत्रो धातुरिति । गतिवृद्धि हिंसास्विति । अत्र व्याख्यानमेव शरम् । ननु शपा व्यवधानादस्य सार्वधातुकपरत्वं कथमित्यत अाह अयं च लुग्विकरण इति स्मरन्तीति । अव्यवहिततिक ईड्विधानमेवात्र बीजम् । शम्यमोस्तु शनीध्वम् अभ्यमीति इति वेदे शपो लुकि बोध्यम् । अयमनिट हलादौ सार्वधातुके रुधा नुवत् । आर्धधातुके तु नेट , तदाह तोतेति । णु स्तुताविति । गोपदेशोऽयं सेट । युचातुवद्रूपाणि । शुक्ष्णुस्नुधातवः सेटः। युधातुवद्रूपाणि । चुक्षाव । चुदणाव । सुणाव इति । षोपदेशोऽयमिति भावः । ऊर्गुञ्धातुरुभयपदी। सेट् । उतो वृद्धेनित्यं प्रप्तौ ऊर्णोतेर्विभाषा । 'उतो वृद्धिः-' इत्यतो वृद्धिरिति हलीति चानुवर्तते, भ्यस्तस्य-' इत्यतः 'पिति सार्वधातुके' इति च-इत्यभिप्रेत्य शेषपूरणेन सूत्र व्याप्टे वृद्धिः स्यादित्यादिना । लिटि 'इजादेः-' इति 'कास्यनेकाच्-' इति च आमि प्राप्ते आह ऊोतेराम् नेति । ऊोते वद्भावस्य वक्ष्यमाणतया इजादित्व स्य अनेकाच्त्वस्य चाभावादिति भावः । णलि ऊर्गु अ इति स्थिते 'अजादेवितीयस्य इति र्नु इति रेफसहितस्य द्वित्वे हलादिशेषे नकारस्य निवृत्तौ ऊरुनाति प्राप्ते न न्द्राः संयोगादयः। 'एकाचो द्वे प्रथमस्य' इत्यतो वे इत्यनु. वर्तते । 'अजादेर्द्वितीयरप' इत्यतः अजादेरिति । अच्चासौ आदिश्चेति कर्मधारयात् शम्यमोश्छन्दसि विकर गस्य लुकि सति हलादिसार्वधातुकमनन्तरं संभवतीति काशिकायामुक्तम् । आपिशतास्तु 'तुरुस्तुशम्यमः सार्वधातुके छन्दसि' इति पठन्ति, तन्मते सूत्रमिदं छन्दस्येव । ऊोतेर्विभाषा । 'उतो वृद्धिः-' इति निये प्राप्ते विभाषेयम् । हलादौ किम् , ऊर्णवानि । पिति किम् , ऊर्गुतः । सार्वधातुके किम् , ऊर्णयात् । ऊर्णोतेराम्नेति । ऊर्णोतेMवद्भावो वाच्यः' इति वक्ष्यमाणस्य आमभावोऽपि फलमिति भावः । न न्द्राः । अजादेरिति वर्तते । स च कर्मधारयः। आदिग्रहणस्य तु