________________
२७२ ] सिद्धान्तकौमुदी। [अदादिकिन्न' 'ङिच्च पिन' इति व्याख्यानात् । विशेषविहितेन डिवेन पित्वस्य बाधात् । यूयात् । अयावीत् । रु १०३४ शब्दे । २४४४ तुरुस्तुशम्यमः सार्वधातुके। (७-३-६५) एभ्यः परस्य सार्वधातुकस्य हलादेस्तिङ ईड् वा स्यात् । 'नाभ्यस्तस्य-' (सू २५०३) इत्यतोऽनुवृत्तिसंभवे पुनः सार्वधातुकग्रहणमपिदर्थम् । रवीति, रौति । रुवीतः, रुतः । हलादेः किम्-रुवन्ति । तिङः किम्-शाम्यति । सार्व. धातुके किम्-आशिषि रूयात् । विध्यादौ तु रुयात् , रुवीयात् । अरावीत् । आह भाष्ये इति । व्याख्यानादिति। 'हलः श्नः शानज्झौ' इति सूत्रव्याख्यावसरे वचनादित्यर्थः । ननु यासुडागमसहितस्य तिपः पित्त्वात् 'पिच्च विन्न' इत्युक्तवचनेन 'यासुट परस्मैपदेषु' इति ङित्त्वस्याप्यभावात् 'विक्ठति च' इति गुणनिषेधाभावाद् गुणः स्यादित्यत आह विशेषविहितेनेत्यादि बाधादित्यन्तम् । 'यासुट परस्मैपदेषु-' इति विशेषविहितेन यासुटो डिवेन तत्सहितस्य पितो 'उिच्च पिन्न' इति पित्त्वप्रयुक्तरित्त्वनिषेधस्य बाधाद् ठित्त्वाद् गुणनिषेधो निर्वाध इत्यर्थः । आशीर्लिायह यूयादिति । आर्धधातुकत्वान्न वृद्धिः । 'अकृत्सार्वधातुकयोः-' इति दीर्घः । यूयास्ताम् इत्यादि । लुयाह अयावीदिति । सिवि वृद्धिः, 'इट इंटि' इति सिज्लोपः। अयाविष्टाम् इत्यादि । अयविष्यत् । तुरुस्तु । तु रु स्तु शमि अम् एषां समाहारद्वन्द्वात् पञ्चम्येकवचनम् । 'उतो वृद्धिः-' इत्यतो हलीति 'भूसुवो' इत्यतस्तिडीति 'ब्रुव ईट्' इत्यतो ईडिति 'यो वा' इत्यतो वा इति चानुवर्तते, तदाह एभ्य इत्यादिना। नाभ्यस्तस्येति । 'नाभ्यस्तस्याचि पिति सार्वधातुके' इत्यतः सार्वधातुके इत्यनुवृत्तिसंभवे पुनः सार्वधातुकप्रहणं पिति इत्यस्यानुवृत्तिर्मा भूदित्येतदर्थमित्यर्थः । रवीतीति । ईट्पक्षे हलादित्वाभावाद् उतो वृद्धिर्नेति भावः। रौतीति । ईडभावे 'उतो वृद्धि:-' इति भावः । रुवीतः, रुत इति । अपित्त्वेऽपि ईड्विकल्प इति भावः । रुवन्तीति । अन्तादेशे कृते हलादित्वाभावादीडभाने उवङिति भावः । शाम्यतीति । श्यनस्तित्त्वभावादीड् नेति भावः । आशिषि रूयादिति । आर्धधातुकत्वादीडभावे 'अकृत्सार्वधातुकयो:-' इति दीर्घः । विध्यादौ त्विति । आदिना निमन्त्रणादिसंग्रहः । रुयात् रुवीयादिति । इलादिसार्वधातुकत्वाद् ईड्विकल्प इति भावः । ईडभावपक्षे हलादौ पिति सार्वधातुके 'उतो वृद्धिः-' इति व्याचक्षते संज्ञापूर्वकविधेरनित्यत्वाद् वृद्धिर्न भवति । अन्यथा 'उत श्रौत्' इत्येव वदेदिति । तुरुस्तु । तुः सौत्रो धातुरिति वक्ष्यति । अपिदर्थमिति । एभ्यः परस्य पितः सार्वधातुकस्येति प्राचो व्याख्यानं प्रामादिकम् , रुवीतः स्तुवीत इत्याद्यसिद्ध्यापत्तेरिति भावः। शम्यमोरुदाहरणं तु शमीध्वम् । अभ्यमीति । अभ्यन्ति ।