________________
प्रकरणम् ४४ ]
बालमनोरमा-तत्त्वबोधिनीसहिता । [ २६७
( ३-१-५२ ) एभ्यश्ब्लेरङ् । श्रख्यत् श्रख्यत, अक्शासीत्, अक्शास्त । 'वर्जने क्शाञ् नेष्ट:' ( वा १५६२ ) समचक्षिष्ट इत्यादि ।
अथ पृच्यन्ता अनुदात्तेतः । ईर १०१८ गतौ कम्पने च । ई । ईरांचक्रे । ईरिता । ईरिष्यते । ईर्ताम् । ईर्ध्व । ईर्ध्वम् । ऐरिष्ट । ईड १०१६ स्तुतौ । ईट्टे । २४३६ ईशः से। (७-२-७७)। २४४० ईडजनोर्ध्वे च । (७२-७८) ईशीड्जनां सेध्वेशब्दयोः सार्वधातुकयोरिट् स्यात् । योगविभागो वैचित्र्यार्थः ।
क्शायात्, क्शेयादिति । लुङि चलेः सिचि प्राप्ते अस्यतिवक्ति । ‘च्लेः सिच्' इत्यतः च्लरित्यनुवर्तते, तदाह एभ्यश्च्लेरिति । अख्यत्, अख्यतेति । यत्वपचे रूपम् | अल्लोपः । वित्त्वादुभयपदित्वादात्मनेपदेऽपि रूपम् । क्शादेशपक्षे परस्मैपदपत्रे त्वाह अक्शासीदिति । अविधौ ख्यातीति यकारनिर्देशाद् यत्वाभावपक्षे अड् न भवति । किं तु दन्तत्वलक्षणौ सगिटौ, अक्शासिष्टाम् इत्यादि । अक्शास्तेति । आत्मनेपदे लुङि रूपम् । अक्शासाताम् इत्यादि । अख्यास्यत्, अख्यास्यत । अक्शास्यत्, अक्शास्यत । वर्जने ख्शाञ् नेष्ट इति । वार्तिकमिदम् । समचक्षिष्टेति । अवर्जयदित्यर्थः । लुङि रूपम् । अथ पृच्यन्ता इति । 'पृची संपर्चने' इत्येतत्पर्यन्ता इत्यर्थः । ईर गताविति । सेट् । ईर्ते इति । ईराते ईरते । ईर्षे ईथे ई । ईरे ईर्वहे ईर्महे । ईरांच इति । 'इजादेश्व - ' इत्याम् । ईरितेति । ईरिष्यते इत्यपि ज्ञेयम् । ईर्तामिति । ईराताम् ईरताम् । ईष्वैति । ईराथाम् इत्यपि ज्ञेयम् । ईर्ध्वमिति । ईरै ईराव है ईराम है । ऐर्त ऐराताम् ऐरत । ऐर्थाः ऐराथाम् ऐर्ध्वम् । ऐरि ऐर्वहि ऐर्महि । ईरीत । ईरिषीष्ट । ऐरिष्ट । ऐरिष्यत । ईड स्तुतौ । ईट्टे इति । तकारस्य ष्टुत्वेन टः, डस्य चर्चेन ट इति भावः । ईडाते ईडते । इड् से इति स्थिते सार्वधातुकत्वादिडागमे अप्राप्ते ईशः से। ईडजनोर्ध्वे । 'इडत्यर्ति-' इत्यत इडिति 'रुदादिभ्यः -' इत्यतः सार्वधातुक इति चानुवर्तते । से ध्वे इति लुप्तषष्ठी के इत्यभिप्रेत्य सूत्रद्वयं युगपध्याचष्टे ईशीडजनामिति । ध्वे इत्यस्य पूर्वत्रापकर्षः, से इत्यस्य उत्तरत्रानुवृत्तिरिति भावः । प्रत्येकं व्याख्याने तु ईशी ध्वशब्दे परे न स्यात्, ईडजनो: सेशब्दे परे न स्यादिति भावः । ननु तर्हि 'ईशी
1
सिद्धे तदर्थं ग्रहणमित्यादि पुषादिषु वक्ष्यति । वक्तीति । 'ब्रुवो वचिः' 'वच परिभाषणे' इति उभयोर्ग्रहणम् । ईर । ईरिता । ईरिष्यते । लङि ऐर्त ऐराताम् ऐरत । ऐरि ऐर्वहि ऐर्महि । ईशः से । यथाश्रुतसूत्रन्यासे इशी ध्वे शब्दे परे ईशध्वे ईशिध्वमिति न सिध्येदत माह ईशी जनामिति । वैचित्र्यार्थ इति ।