________________
२६६ ]
सिद्धान्तकौमुदी ।
[ श्रदादि
( २ - ४ - ५५ ) अत्र भाध्ये रुशादिरयमादेशः । श्रसिद्धकाण्डे 'शस्य यो वा' ( वा १५८६ ) इति स्थितम् । निश्वात्पदद्वयम् । चख्यौ चख्ये; चक्शौ, चक्शे । 'चयो द्वितीयाः -' ( वा ५०२३ ) इति तु न, चर्खस्यासिद्धत्वात् । चचते । ख्याता, क्शाता । ख्यास्यति, ख्यास्यते; क्शास्यति, क्शास्यते । श्रचष्ट । चक्षीत । ख्यायात्, ख्येयात् ; क्शायात्, क्शेयात्। २४३८ अस्यतिवक्तिव्यातिभ्यो ऽङ् । आर्धधातुके इत्यनन्तरम् 'इत्यनुवर्तमाने' इति शेषः । चक्षिङः स्यान् । चतिङः ख्याञ् स्यादार्धधातुके परे इत्यर्थः । वा लिटि । चतिङः ख्याञ् वा स्याल्लिटीत्यर्थः । अत्रेति । 'चक्षिङः ख्याञ्' इति सूत्रभाष्ये 'ख्शादिरयमादेशः' इति, 'पूर्वत्रासिद्धम्' इत्यधिकारे 'शाञः शस्य यो वा वक्तव्यः' इति च स्थितमित्यर्थ । तेन पुंख्यानमित्यत्र यत्वस्यासिद्धत्वात् 'पुमः खय्यम्परे' इति रुत्वं नेति हल्मंधिनिरूपणे प्रपञ्चितम् । ञित्त्वात्पदद्वयमिति । परस्मैपदमात्मनेपदं चेत्यर्थः । चख्यौ इति । ख्शादेशस्य शस्य यत्वपक्षे 'आत श्र णलः' इति भावः । चख्यतुः चख्युः । भारद्वाजनियमात्थलि वेट्, चख्यिथ, चख्याथ चख्यथुः चख्य । चख्यौ चख्यिव चरियम, क्रादिनियमादिद् । लिटि तडि ख्शानादेशस्य शस्य यत्वपक्षे आह चख्ये इति । चख्याते चख्यिरे । चख्यिषे चख्याथे चयिध्वे । चख्ये चख्यिवह्ने चख्यिमहे ! शस्य यत्वाभावपचे त्वाह चक्शौ, चक्श इति । खस्य चर्चेन क इति भावः । कृते चर्चे तस्य 'चयो द्वितीयाः शरि-' इति खकारमाशङ्कय निराकरोति चय इति । अथ ख्याञादेशाभावपचे आह चचक्षे इति । चचक्षिषे चचक्षिध्वे । चचक्षिवहे । ख्यास्यते इति । चष्टाम् चक्षाताम् चक्षताम् । चव चक्षाथाम् चड्ढ्वम् । चक्षै चताव है चतामहै । लब्याह अचष्टेति । श्रचक्षाताम् अचक्षत । अचष्ठाः श्रचक्षाथाम् अचड्वम् । श्रचक्षि अचवहि अचक्ष्महि । विधिलिब्याह चक्षीतेति । आशीर्लिङि ख्शादेशस्य शस्य यत्वपक्षे श्राह ख्यायात्, ख्येयादिति । ' वाऽन्यस्य - ' इत्येत्त्वविकल्पः। शस्य यत्वाभावपक्षे आह इति कलोपः, ष्टुत्वम् । ख्शादिरिति । तेन पुंख्यानमित्यत्र 'पुमः खय्यम्परे' इति रुत्वं नेत्यादि पूर्वार्ध एवोक्तम् । श्रसिद्धकाण्डे इति । गत्व प्रकरणानन्तरमिति शेषः । तेन पर्याख्यानमित्यत्र शकारेण व्यवधानात् 'कृत्यचः' इति णत्वं न । तथा सुप्रख्येन निर्वृत्तं सौप्रख्यं तत्र भवः सौप्रख्यीयः, यत्वस्यासिद्धत्वाद् 'धन्वयोपधात् -' इति वुञ् न, किंतु छ एवेति बोध्यम् । श्रचष्टेति । 'स्को:-' इति कलोपः । ष्टुत्वम् । 'अस्यतिवक्लिख्याति -' इत्यत्र विधिसामर्थ्याद्यत्त्वं नासिद्धम् । स्वतन्त्रस्य ख्याधातोः सार्वधातुकमात्रविषयताया वक्ष्यमाणत्वात् । अस्यतेः पुषादिपाठादडि
1