________________
प्रकरणम् ४४ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [२६५ युजर्थः । 'विचक्षणः प्रथयन् । नुम् तु न । 'अन्तेदितः' इति व्याख्यानात् ।
कारस्तु 'अनुदातेत्त्वप्रयुक्रमात्मनेपदमनित्यम्' (१७) इति ज्ञापनार्थः । तेन 'स्फायन्निर्मोफसन्धि-' इत्यादि सिध्यति । चष्टे चक्षाते । 'पार्धधातुके' (सू २४३२ ) २१३६ चक्षिङः ख्याज् । (२-४-५४) २४३७ वा लिटि। वाचीति । गूाथस्य स्पष्ट प्रतिपत्त्यर्थे विवरण इत्यर्थः । अयं दर्शनेऽपीति । श्रुतौ 'पूर्वापरं चरतो मयायैतौ । शिशू कीडन्तौ परियातो अध्वरम् । विश्वान्यन्यो भुवनाभिचक्षे । ऋत्नन्यो विदधजायते पुनः' इत्यादौ तथा दर्शनादिति भावः । ननु चक्षिङित्यत्र इमारोच्चारणं व्यर्थम् । न च सुखोच्चारणार्थ तदिति वाच्यम् , अकारोच्चारणेनैव तत्सिद्धेः । नाप्यनुदात्तत्त्वप्रयुक्तात्मनेपदार्थ तदिति शक्यं वक्तुम् , ङित्त्वादेव तत्सिद्धेरि त्यत आह इकारोऽनुदात्तो युजर्थ इति । 'अनुदात्तेतश्च हलादेः' इति ल्युड वादयुच्प्रत्ययार्थ इत्यर्थः । अकारमुल्लङ्घय इकारोचारणं तु उच्चारणार्थत्वाभावप्रतिपयर्थमिति भावः । विचक्षणः प्रथयन् इति मन्त्रः । अत्र लिस्वरनिवृत्तये युचात्यय इति भावः । ननु युच्प्रत्ययार्थमिकारस्य इत्संज्ञावश्यकत्वे नुमागमः स्यादित्यत आह नुम् तु नेति । कुत इत्यत आह अन्तेदित इति । 'इदितो नुम् धातोः' इत्यत्र 'गोः पादान्ते' इत्यस्मादन्ते इत्यनुवृत्तेरिति भावः । नन्विकारे युजर्थम् अनुदात्तेत्वस्य इत्संज्ञकत्वस्य च आवश्यकत्वे तत एवात्मनेपदसंभवाद्ङकारोचारणं व्यर्थमित्याशङ्कय आह कारस्त्विति । डकारो नित्यात्मनेपदार्थः। अनुदात्तेत्त्वप्रयुक्तं त्व त्मनेपदं कदाचिन्न स्यात् , अतो कारोच्चारणम् । अत एव 'अनुदात्तेत्त्वप्रयुक्तात्मनेपदमनित्यम्' इति विज्ञायत इत्यर्थः । स्फायन्निति । स्फायी वृद्धावित्यनुदात्ततोऽपि लटः शत्रादेशः, न त्वात्मनेपदं शानजिति भावः । वस्तुतस्तु अन्त्येत्कत्वव्याघातेन चरितार्थत्वाद् कारोच्चारणमुक्तार्थे कथं ज्ञापकम्, भाष्ये तथानुक्तत्वाच्च । अतः पृषोदरादित्वकल्पनया स्फायन्निति कथंचित्साध्यमित्याहुः। चष्टे इति । 'स्को:-' इति कलोपः, ष्टुत्वं चेति भावः । चक्षाते इति । चक्षते । थासः सेभावे 'स्को:-' इति कलोपे 'षढो:-' इति षस्य कत्वे षत्वे च कृते, चक्ष चक्षाथे। ध्वभि 'स्को:-' इति कलोपे षस्य जश्त्वेन डकारे चडढ्वे । चक्षे चक्ष्वहे चक्ष्महे । व्याख्यातत्वादिति भवः । युजर्थ इति । 'अनुदात्तेतश्च हलादेः' इति युच । अन्तेदित इति । 'इदित:-' इति नुविधौ ‘गोः पादान्त-' इत्यस्मादन्त इत्यनुवर्तत इति भावःः । एवं च नुमागमशङ्कानुत्थानाय चक्षिङ इकारस्थानेऽकार एवास. ङ्क्तुमुचितः । अनुदात्तत्वेनैव तडि सिद्धे डकारो व्यर्थ इत्याशङ्कयाह कारस्त्विति । स्फायन्निति । स्फ यी वृद्धावित्यनुदात्तेतो लटः शत्रादेशः । चले इति । 'स्को:-'