________________
२६८ ]
सिद्धान्तकौमुदी ।
[ अदादि
ईडिषे । ईडिध्वे । 'एकदेशविकृतस्यानन्यत्वात्' ( प ३८ ) ईडिष्व । इंडिध्वम् । 'विकृतिग्रहणेन प्रकृतेरग्रहणात्' ऐड्वम् । ईश १०२० ऐश्वर्ये । ईष्टे । ईशिषे ईशिध्वे । प्रास १०२१ उपवेशने । श्रास्ते । ' दयायासश्च' ( सू २३२४ ) । श्रसांचक्रे । श्रस्स्व श्रध्वम् । श्रासिष्ट । श्रश्शासु १०२२ इच्छायाम् । आशास्ते श्राशासते । श्राङ्पूर्वत्वं प्रायिकम् । तेन 'नमोवाकं प्रशास्महे' इति
I
"
डजनां सेध्वयोः' इत्येकमेव सूत्रं कुतो न कृतमित्यत श्राह योगविभागो वैचि - त्र्यार्थ इति । से इत्यस्य उत्तरत्रानुवृत्तिः ध्वे इत्यस्य पूर्वत्रापकर्ष इति वैचित्र्ययोतनार्थ इत्यर्थः । स्वतन्त्रेच्छस्य महर्षेर्नियन्तुमशक्यत्वादिति भावः । ईडिषे इति । ईडे ईव ईमहे । लिटि तु ईडांचक्रे इत्यादि । ईडिता । ईडिष्यते । ईट्टाम् । ननु ईडिष्वेत्यत्र कथमिट् सेशब्दाभावात् तत्राह एकदेशेति । एकदेशविकृतत्वात् स्वशब्दस्य इटि ईडिष्व इति रूपमित्यर्थः । ननु तर्हि ईड्वम् इत्यत्र कथं नेट् ध्वस्वरूपापेक्षया ध्वमित्यस्य एकदेशविकृतत्वादित्यत श्राह विकृतीति । प्रकृतिप्रहणे तदेकदेशविकृतस्य ग्रहणम् । न तु विकृतिप्रहणे तदेकदेशविकृताया अपि प्रकृतेर्ग्रहणम् । पुरुषमानयेत्युक्ते हि अन्धोऽनन्धो वा पुरुष श्रानीयते । अन्धमानय इत्यत्र तु अन्ध एवानीयते न त्वनन्धः । तथा च ध्वम एत्वे कृते ध्वेशब्दः, तेन च विकृतेन ध्वमित्यस्य तत्प्रकृतिभूतस्य न ग्रहणमिति नेडिति भावः । इडे ईडाव ईडाम है । ऐट्ट ऐडाताम् ऐडत । ऐट्ठाः ऐडाथाम् ऐड्वम् । ऐडि ऐड्वहि ऐड्महि । ईडीत । ईडिषीष्ट । ऐडिष्ट । ऐडिष्यत । ईशधातुरीडिवत् । ईष्टे इत्यादि । शस्य वश्वादिना षत्वे ष्टुत्वमिति विशेषः । श्रास उपवेशने । आस्ते इति । श्रसाते श्रासते । श्रस्से साथे । 'धि च' इति सलोपः । श्राध्वे । श्रासे श्रस्वहे आस्महे । इजादित्वाद्यभावादाह दयायासश्चेति । श्रसिता । श्रासिष्यते । श्रास्ताम् आसाताम् । श्रस्स्वेति । सकारद्वयमत्र बोध्यम् । श्रासाथाम् । ध्वमिति । 'धि च' इति सलोपः । श्रसाव आसाम है । स्त आसाताम् आसत । आस्थाः साथाम् श्रध्वम् । श्रसि स्वहि श्रमहि । श्रासीत आसीयाताम् । श्रसिषीष्ट श्रासिषीयास्ताम् । श्रसिष्टति । श्रसिषातामित्यादि । आसिष्यत । श्राङ: शासु इच्छायामिति । श्राङ: परः शासधातु
I
1
ध्वे इत्यस्य पूर्वत्रापकर्षः, से इत्यस्योत्तरत्रानुवृत्तिरित्येवं विचित्रबोधार्थ इत्यर्थः । इह काशिकादौ जनेरुदाहरणमुक्तम् । तथा हि- 'जनी प्रादुर्भावे' इत्यस्माच्छ्यनश्छान्दसो लुग् उपधालोपाभावश्च । जनिषे । जनिध्वे । जनिष्व । जनिध्वम् । 'जन जनने' इति श्लुविकरणस्याप्युपधालोपे व्यतिजशिषे । व्यतिजज्ञिध्वे । 'कर्तरि कर्मव्यतिहारे' इति