________________
२६२ ]
सिद्धान्तकौमुदी ।
[ अदादि
'आर्धधातुके' ( सू २३०७ ) इति विषयसप्तमी । तेनार्धधातुकोपदेशेऽकारान्तस्वाद् 'श्रतो लोपः -' ( सू २३०८ ) । वध्यात् वध्यास्ताम् । श्रार्धधातुके किमूविध्यादौ हन्यात् । 'हन्तेः -' ( सू ३५६ ) इति णत्वम् । प्रहण्यात् । श्रल्लोपस्य स्थानिवत्वाद् 'तो हादे:-' ( सू २२८४ ) इति न वृद्धि, अवधीत् ।
श्रथ चत्वारः स्वरितेतः । द्विष १०१३ श्रप्रीतौ । द्वेष्टि, द्विष्टे । द्वेष्टा । द्वेषयति द्वेच्यते । द्वेष्टु, द्विष्टात् । द्विड्ढि । द्वेषाणि । द्वेषै द्वेषावहै । अद्वे । २४३५ द्विषश्च । ( ३-४-११२ ) लङो भेर्जुस् वा स्यात् । श्रद्विपुः, श्रद्विषन् । श्रद्वेषम् । द्विष्यात् । द्विषीत । द्वितीष्ट । श्रद्विक्षत् । दुह १०१४
कथं वध्यादित्यत्र अल्लोप इत्यत आह विषयसप्तमीति । तथा च श्रार्धधातुके विवक्षिते तत्प्रवृत्तेः प्रागेव वधादेश कृते श्रार्धधातुकप्रवृत्तिरिति फलितम् । ततश्च श्रार्धधातुकोपदेशे वधादेशस्य प्रकारान्तत्वादल्लोपो निर्बाधः, तदाह तेनेति । अवधीदिति । सिचि अल्लोपे कृते वधादेशस्य धकारान्ततया एकाच्त्वेऽप्यादेशोपदेशे अनेकाच्त्वेन 'एकाच उपदेशे -' इति निषेधाभावात् सिच इ । 'अतो इलादे:- ' इति वृद्धिस्तु न भवति, 'अचः परस्मिन् -' इत्यल्लोपस्य स्थानिवत्त्वात् । एतदर्थमेव हि वधादेशस्य दन्तत्वमाश्रितम् ।
स्वरितेत इति । उभयपदिन इति फलितम् । द्विप्रीताविति । अनिट् । द्वेष्टीति । पित्त्वेन ङित्त्वाभावाल्लघूपधगुण इति भावः । द्विष्टः द्विषन्ति । द्वेति द्विष्टः द्विष्ट । द्वेष्मि द्विष्वः द्विष्मः । तङि उदाहरति द्विष्ट इति । ङित्त्वान्न गुणः । द्विषाते द्विषते । द्विक्षे द्विषाये द्विड्द्द्वे । द्विषे द्विष्वहे द्विष्महे । षढोरिति षस्य कत्वं मत्वा आह द्वेक्ष्यतीति । द्विड्ढीति । हेर्धिः, षस्य जश्त्वेन डः, ष्टुत्वेन ढः । द्विष्टात् द्विष्टम् द्विष्ट । द्वेषाणीति । श्राटः पित्त्वेन ङित्त्वाभावाद् गुणः, षात्परत्वाण्णत्वम् । द्वेषाव द्वेषाम | द्विष्टाम् द्विषाताम् द्विषताम् । द्वित्व द्विषाथाम् द्विड्द्द्वम् । द्वेषै इति । श्रटः पित्त्वेन ङित्त्वाभावाद् गुण इति भावः । अद्वेडिति । लङस्तिप्, गुणः, इकारलोपः, हल्ब्धादिलोपः 'वाऽवसाने' इति 'झलां जश्-' इति च चर्त्वजश्त्वे इति भावः । श्रद्विष्टाम् । द्विषश्च । 'भेर्जुस्' इति 'लङः शाकटायनस्य' इति चानुवर्तते, इत्यभिप्रेत्य शेषपूरणेन सूत्रं व्याचष्टे लङो भेरिति । अद्विषनिति । श्रद्वेट् श्रद्विष्टम् श्रद्विष्ट । श्रद्वेषम् श्रद्विष्व श्रद्विष्म । विधिलिङि परस्मैपदे श्रह द्विष्यादिति । द्विष्याताम् द्विष्युः इत्यादि । तङि श्रह द्विषीतेति । द्विषीयाताम् द्विषीरन् इत्यादि । आशीर्लिङि द्विष्यास्ताम् इत्यादि । तथाह द्विक्षीष्टेति । ‘लिसिचावात्मनेपदेषु' इति कित्त्वान्न गुणः । द्वितीयास्तामित्यादि । लुङि परस्मैपदे