________________
२६० 1 सिद्धान्तकौमुदी। [अदादिऽनुदात्तोपदेशाः। तनु क्षणु क्षिणु ऋणु तृणु घृणु वनु मनु तनोत्यादयः । हतः नन्ति । २४२६ वमोर्वा (८-४-२३) उपसर्गस्थानिमित्तात्परस्य हन्तेर्नस्य णो वा स्याद्वमयोः परयोः । प्रहरिम, प्रहन्मि प्रहरवः, प्रहन्वः । 'हो हन्ते:-' (सू ३५८) इति कुत्वम् । जघान जन्नतुः जम्नुः । २४३० अभ्यासाच । नामित्यादिना । वनधातोस्तु अनुनासिकान्तत्वान्न विशेषणम् , अव्यभिचारादिति भावः। अत्रानुदात्तोपदेशान् अनुनासिकान्तान् दर्शयति यमिरमीति । अनुदात्तोपदेशेषु एतेषामेव परणामनुनासिकान्तत्वादिति भावः। अथ तनोतीत्यादीननुमासिकान्तान् दर्शयति तनुतणुतिरिवति । मनु इत्यन्तं समाहार. द्वन्द्वात् प्रथमैकवचनान्तम् । एतेऽष्टौ तनोत्यादयोऽनुनासिकान्ता इत्यर्थः । 'तनु विस्तारे' इत्यारभ्य 'डु कृञ् करण' इत्यन्ता दश धातवस्तनोत्यादयः । तत्र करोतिरनुनासिकान्तत्वाभावादिह न गृह्यते। 'जनसनखनां सन्झलोः' इति सनोतेरात्त्वस्य वक्ष्यमाणत्वात् सोऽप्यत्र न गृहीतः। 'वनु याचने' इति तनादौ पठितम् । तस्य उविकरणतया उदित्त्वेन च वनतिप्रहणेनाप्रहणात् तनादौ पठितस्यापि पृथग्ग्रहणम् । तत्र तानादिकस्य वनेरुदित्त्वाद् 'उदितो वा' इति क्त्वायामिड्विकल्पाद् 'यस्य विभाषा' इति निष्ठायामिडभावे वतः वतवान् इत्युदाहरणम् । वनतेस्तु भौवादिकस्य उदित्त्वाभावाभिष्टायां सेटकत्वेऽपि क्लिनि वतिरित्युदाहरणम् , तत्र 'तितुत्रतथसिसुसरकसेषु च' इति इनिषेधादित्यलम् । हत इति । तसि अनुदात्तोपदेशानुनासिकान्तत्वानकारलोपः, 'सार्वधातुकमपित्' इति तसो उित्त्वात् । नन्तीति । अजादिलित्परकत्वाद् ‘गमहन-' इत्युपधालोपे हो हन्तेः-' इति कुत्वेन हस्य घः। हंसि हथः हथ । वमोर्वा । 'उपसर्गादसमासेऽपि.' इत्यत उपसर्गादित्यनुवर्तते । 'रषाभ्यां नो णः-' इति सूत्रमनुवर्तते । हन्तरत्पूर्वस्य' इत्यतो हन्तेरिति, तदाह उपसर्गस्थानिमित्तादिति । णलि जहानेति स्थिते आह हो हन्तरिति । 'अभ्यासाच्च' इत्यपेक्षया अस्यान्तरङ्गत्वेन न्याय्यत्वादिति भावः । जन्नतुरिति । 'गमहन-' इत्युपधालोपे 'हो हन्तेः-' इति कुत्वम् । थलि इतीनिषेधाज्झलि विति न लोपः । लोपः स्यादिति । 'अलोऽन्त्यस्य' इत्यन्त्यस्येति भावः । अनुनासिकान्तानुदात्तोपदेशान्दर्शयति यमिरमीति । तनोत्यादीनप्यनुनासिकान्तान्दर्शयति तनुतणुतिरिवति । करोतिवर्जितास्तनोत्यादयो नव, तन्मध्ये सनोतेः 'जनसनखनाम्-' इत्यात्वं वक्ष्यतीति न स परिगणितः, ततः क्षतः क्षिति इत्यादीन्युदाहरणानि । तनोत्यादीनामुदित्त्वात् क्त्वायामिड्विकल्पानिष्ठायां नेट् । अनुनासिकान्तानामिति किम् , शक्तः । रुद्धः । झलीति