________________
प्रकरणम् ४४ ] बालमनोरमात्तत्त्वबोधिनीसहिता। [२५६ डागमः स्यात्सर्वमतेन । प्रादत् प्रात्ताम् श्रादन् । प्रादः प्रात्तम् प्रात्त । प्रादम् श्राद्ध धाम । अद्यात् प्रद्याताम् अद्युः । अद्यास्ताम् अद्यासुः । २४२७ लुङसनोर्घस्तृ । (२-४-३७) अदो घस्लु स्याल्लुङि सनि च। लूदित्वाद । अघसत् । हन १०१२ हिंसागस्योः । प्रणिहन्ति । २५२८ अनुदात्तोपदेशवनतितनोत्यादीनामनुनासिकलोपो झलि विङति । (६-४-३७) अनुनासिक इति लुप्तषष्ठीकं पदं वनतीतरेषां विशेषणम् । अनुनासिकान्तानामेषां वनतेश्च लोपः स्याज्मजादौ क्ङिति परे । यमि रमि नमि गमि हनि मन्यतयो. चानुवर्तते । सप्तमीद्वयं च षष्ठ्या विपरिणम्यते । 'अड् गार्यगालवयोः' इत्यतः अडित्यनुवर्तते । गाय॑गालवयोरित्यस्यानुवृत्तिनिवृत्तये सर्वेषामिति, तदाह अदः परस्येत्यादिना । टित्त्वादाद्यवयवः, तदाह आददिति । आत्तामिति । अपृक्तग्रहणानाडागम इति भावः । विधिलिङि रूपमाह अद्यादिति । शपो लुकि अतः परत्वाभावाद् 'अतो येयः' इति नेति भावः । मिपः अमि यासुटि सलोपे सवर्णदीर्घ अद्याम् अद्याव अद्याम । आशीलिङि अद्यादिति सिद्धवत्कृत्याह अद्यास्तामिति । लुङि अद् स् त् इति स्थिते लुङसनोर्घस्ल । 'अदो जग्धिः-' इत्यतः अद इत्यनुवर्तते, तदाह अद इति । लुदित्त्वस्य प्रयोजनमाह लृदित्त्वादिति । हनधातुरनिट् । प्रणिहन्तीति । शपो लुक् । नस्यानुस्वारपरसवर्णौ । 'नर्गद-' इति णत्वम् । अनुदात्तोपदेश । ऊदृदन्तैरित्यादिभिः संगृहीता अनुदात्तोपदेशाः, वनति वादिकः, तनोत्यादयस्तु 'तनु विस्तारे' इत्यादिना पठिष्यन्ते । एतोषामनुनासिकस्य लोपः स्याज्झलादौ क्छिति इति प्रतीयमानार्थः । एवं सति मुक्तमित्यादौ मुचादीनामपि मकारादिलोपः स्यात् , तत्राह अनुनासिक इति लुप्त. षष्ठीकं पदमिति । एवमप्युक्तातिप्रसङ्गतादवस्थ्यादाह वनतीतरेषां विशषणमिति । अनुदात्तोपदेशानां तनोत्यादीनां चेत्यर्थः । तथा च विशेषणत्वात्तदन्तविधौ अनुनासिकान्तानामनुदात्तोपदेशानां तनोत्यादीनां वनतेश्चेत्येषामन्तस्य लोपः स्यादित्यर्थलाभान्मुक्तमित्यादौ नातिप्रसङ्गा, तदाह अनुनासिकान्ता. इत्यतः अडित्यनुवर्तते । गार्यगालवयोरित्यस्य त्वनुवृत्तिशङ्कां निवारयितुं सर्वेषांग्रहणम् । लुङ्सनोः । जिघत्सति । प्रणिहन्तीति । 'नेर्गद-' इति णत्वम् । अनुदात्तोपदेश । यद्यत्र एतेषामनुनासिकस्य लोप इति व्याख्यायेत तदा मन्यते. नम्नहमिहमुच्मस्जादीनां चानन्त्यस्यापि लोपः स्यात् , तथा च मतः नतः नद्धः मीढः मग्न इत्यादि न सिध्येत् , अत आह लुप्तषष्ठीकमिति । वनतीतरेषामिति । वनतेरव्यभिचाराद्विशेषणं व्यर्थमिति भावः । वतिः । इह विनि 'तितुत्र-'