________________
२५८ ]
सिद्धान्तकौमुदी। [अदादि. चर्वम् । 'शासिवसि-' (सू २४१०) इति षस्वम् । जक्षतुः जक्षुः। घसेस्तासावभावास्थलि नित्यमिद् । जघसिथ । पाद आदतुः । 'इडत्यति-' (सू २३८४) इति नित्यमिट् । प्रादिथ । अत्ता। अस्यति । २४२५ हुझल्भ्यो हेधिः । (६-४-१०१) होलन्तेभ्यश्च हेधिः स्यात् । अद्धि, अत्तात् । अदानि । २४२६ अदः सर्वेषाम् । (७-३-१००) अदः परस्यापकसार्वधातुकस्याधालोप इति । 'असंयोगात्-' इति कित्त्वादिति भावः । जस् अतुसिति स्थिते घकारस्य चत्वं वक्ष्यन् उपधालोपस्य स्थानिवत्त्वमाशङ्कयाह तस्येति । उपधालोपस्येत्यर्थः । जस अतुसिति स्थिते सकारस्य आदेशप्रत्ययावयवत्वाभावादाह शासीति । थलि तु क्रादिनियमान्नित्यमिट । 'उपदेशेऽत्वतः' इति निषेधस्य तासौ नित्यानिविषयत्वात् । घस् तु तासौ न विद्यत एव, कुतस्तस्य तासावनिटकत्वम् । 'यस्तासावस्ति अनिट् च' इति हि भाष्यम् , तदाह घसेस्तासाविति । जघसिथेति । जक्षथुः जक्ष । जघास, जघस जक्षिव जतिम । घसादेशाभावपक्षे त्वाह प्रादेति। थलि भारद्वाजनियमादिड्विकल्प प्राप्ते आह इडत्यर्तीति । आदिथति । आदथुः श्राद। श्राद आदिव आदिम । अत्ता। अत्स्यतीति । अनिट् । दस्य तः । अत्तु, अत्तात् अत्ताम् अदन्तु । अद् हि इति स्थिते 'झयो होऽन्यतरस्याम्' इति हकारस्य पूर्वसवर्णविकल्पेन धकारविकल्पे प्राप्त हुमल्यो हेधिः । झलन्तेभ्य इति । अङ्गविशेषणत्वात् तदन्तविधिरिति भावः । अनेकाल्त्वात् सर्वादेशः । रुदिहीत्यत्र तु न, निर्दिश्यमानहेरिटा व्यवहितत्वाद् इट्सहितस्य त्वनिर्दिश्यमानत्वादिति भाष्ये स्पष्टम् । अत्तादिति । धित्वात् परत्वानातङ् । तस्य स्थानिवत्त्वेन हित्वेऽपि न पुनधित्वम् , 'विप्रतिषेधे यद्बाधितं तद्बाधितमेव' इति न्यायात् । अत्तम् अत्त । अदानीति । 'आडुत्तमस्य-' इत्याडागमः । एतदर्थमेव आडागमे दीर्घोच्चारणमिति भावः । अदाव अदाम । लङि श्राद् त् इति स्थिते अदः सर्वेषाम् । श्रद इति पञ्चमी । 'तस्मादित्युत्तरस्य' इते परिभाषया परस्येति लभ्यते । 'गुणोऽपृक्त' इत्यतः अपृक्ते इति 'तुरुस्तुशम्यम'-' इत्यतः सार्वधातुके इति करुणा घृणा' इति चामरः । हुझल्भ्यो हेधिः । जुहुधि । 'घसिभसोहलि' इत्यतो हलीत्यनुवर्त्य हलादेरिति व्याख्यानात् । रुदिहि स्वपिहि इत्यादाविडादेर्हेर्धिन भवति, अत्तादित्यत्र तु चित्वात्परत्वात्तातङि कृते स्थानिवद्भावेन पुनधित्वं तु 'सकृद्गतौ-' इति न्यायान्नेत्याहुः । अन्ये तु हेर्धिरित्यत्र स्थान्यादेशयोयोरपीकार उच्चारणार्थ इति हकारस्य धकार आदेशः । तेन हलीत्यनुवृत्तिर्न कर्तव्या, नापि तातडो धित्वप्रसङ्ग इति सकृद्गतिन्यायाश्रयणमपि मास्त्वित्याहुः। अदः सर्वेषाम् । 'अजायेगालवयोः'