________________
प्रकरणम् ४४ ] बालमनोरमात्तत्त्वबोधिनीसहिता। [२५७
अथ तिङन्तेऽदादिप्रकरणम् ॥४४॥
अद १०११ भक्षणे । द्वौ परस्मैपदिनौ। २४२३ अदिप्रभृतिभ्यः शपः । (२-४-७२) लुक्स्यात् । अत्ति भत्तः अदन्ति । २४२४ लिट्यन्यतरस्याम् । (२-४-४०) अदो घस्नु वा स्यालिटि । जघास । 'गमहन' (सू २३६३) इत्युपधालोपः । तस्य चर्विधि प्रति स्थानिवद्भावनिषेधाद् घस्य पानृतिव आनृतिम । अर्तिता। अर्तिष्यति । ऋत्यात् । पार्तीदिति । 'इट ईटि' इति सिज्लोपः, श्राडागमः । आर्तिष्यत् । इति श्रीवासुदेवदीक्षितविदुषा विरचितायां सिद्धान्तकौमुदीव्याख्यायां
बालमनोरमाख्यायां शब्धिकरणनिरूपणं समाप्तम् ।
अथ लुग्विकरणान् धातून्निरूपयितुमुपक्रमते अद भक्षण · इति । अनि डयम् । अदिप्रभृतिभ्यः। 'ण्यक्षत्रियार्षभितः-' इत्यतो लुगित्यनुवर्तते इत्यभिप्रेत्य शेषपूरणेन सूत्रं व्याचष्टे तुक् स्यादिति । अदिप्रभृतिभ्यः परस्य शपो लुगिति फलितम् । अतीति । शपो लुकि दस्य चर्वेन तकारः । एवम् अत्त इत्यपि। अदन्तीति । एतदर्थमेव 'झोऽन्तः' इत्यत्र अकारादिरादेश आश्रितः । अत्सि अत्थः अत्थ । अनि अद्वः अमः । लिट्यन्यतरस्याम् । 'दो जग्धिः' इत्यतः अद इति 'लुङ्सनोस्ल' इत्यतो घस्ल इति चानुवर्तते । तदाह अद इति । आदेशे लकार इत् । घसादेशः अनिट् । जघासेति । अकित्त्वाद् 'गमहन-' इत्युपधालोपो नेति भावः । जघस् अतुसिति स्थिते श्राह गमहनेत्युपकृता-'क स्यने काग्रहणं चुलुम्पाद्यर्थम्' इति । चुलुम्पतीति । लुम्पतीत्यर्थः । चुलुम्प लोप इति कविकल्पद्रुमे उक्तत्वात् ।।
इति तत्त्वबोधिन्या भ्वादिप्रकरणम् ।
ऋतरीयङ् । तान्तोऽयं धातुरिकानिर्दिष्टो न स्विकारान्तः, 'वञ्चिलुच्यतश्च' इति निर्देशात् । केचित्तु ईयङ् इति दीर्घोच्चारणात्तान्तोऽयमिति ज्ञाप्यते । इदन्तत्वे हि सवर्णदीर्घेणैव सिद्धेरियमेव कुर्यादित्याहस्तच्चिन्त्यम् । इदन्तत्वे तु 'एरनेकाच-' इति यणा सवर्णदीर्घस्य बाधात् । न च ऋतर्यविधौ ‘अकृत्सार्व-' इति दीर्घोपपत्तेरीयविधानं तान्तत्वे लिङ्गं भवत्येवेति वाच्यम् , यविधौ ‘सन्यङोः' इति द्वित्वापत्तेः । कृतायां चेति । 'अर्तनं च ऋतीया च हिणीया च घृणार्थकाः' इति, 'जुगुप्सा