________________
२५६ ]
सिद्धान्तकौमुदी |
[ स्वादिभ्वादिस्त्वाकृतिगणः । तेन चुलुम्पतीत्यादिसंग्रहः । इति भ्वादयः । २४२२ ऋतेरीयङ् । ( ३-१-२९) ऋतिः सौत्रस्तस्मादीयङ् स्यात्स्वार्थे । जुगुप्सायामयं धातुरिति बहवः । कृपायां चेत्येके । 'सनाद्यन्ता: -' ( सू २३०४ ) इति धातुस्वम् । ऋतीयते । ऋतीयांचक्रे । श्रार्धधातुकविवक्षायां तु ' आयादय आर्धधातुके वा' ( सू २३०५ ) इतीय भावे 'शेषात्कर्तरि - ( सू २१५६ ) इति परस्मैपदम् । श्रनर्त । श्रर्तिष्यति । श्रार्तीत् । ॥ इति तिङन्ते भ्वादिप्रकरणम् ॥
1
वृद्धप्राप्यायादेशे कृते यान्तत्वादेव हलन्तलक्षणवृद्धेर्निषेधसिद्धेः 'ह्मयन्त - ' इत्यत्र श्विग्रहणं व्यर्थमिति वाच्यम्, अनवकाशतया अपवादत्वेन गुणं बाधित्वा सिचि वृद्धेः प्राप्तौ तन्निषेधार्थत्वादित्यलम् । वृदित्यस्य व्याख्यानम् यजादयो वृत्ता इति । ननु भ्वादयो वृत्ता इति कुतो न व्याख्यायते इत्यत श्राह भ्वादिस्त्वा कृतिगण इति । चुलुम्पतीति । चुलुम्पधातुर्लोपार्थकः, तस्यापि भ्वादिगणे पाठात् शब्विकरणत्वमिति भावः । इति स्वादय इति । नचैवं सति श्रद भक्षणे' इत्यादीनां वक्ष्यमाणानां धातुत्वं कथमिति शङ्कयम्, शब्विकरणा भ्वादयः समाप्ता इत्यर्थात् । ऋतेरीयङ् । ऋतेर्धातुपाठे प्रदर्शनादाह ऋतिः सौत्र इति । स्वार्थे इति । अर्थविशेषस्यानिर्देशादिति भावः । तकारान्तो धातुरयमिका निर्दिष्टो न त्विकारान्तः । इदन्तत्वे हि सवर्णदीर्घेणैव सिद्धे ईयङिति ईकारोच्चारणवैयर्थ्यात् । न च इदन्तत्वे सति 'एरनेकाच:-' इति यण् स्यादिति वाच्यम्, एवमपि 'ऋतेर्थः ' इति ङयप्रत्यये कृते ‘अकृत्सार्वधातुकयोर्दीर्घः' इति दीर्घेणैव सिद्धे इयविधिवैयर्थ्यात् । एके इति । अन्य इत्यर्थः । ऋतीयते इति दन्तत्वात् शपि पररूपम् । ऋतीयांचक्रे इति । 'कास्प्रत्ययात् -' इत्याम् । ऋतीयिता । ऋतीयिष्यते । ऋतीयताम् । श्रार्तीयत । ऋतीयेत । ऋतीयिषीष्ट । ऋतीयिष्ट । श्रात यिष्यत । श्रानर्तेति । ऋत् इति तकारान्ताद् लिटि गलि द्वित्वे उरदत्त्वे रपरत्वे हलादिशेषे ‘अत आदेः' इत्यभ्यासस्य दीर्घे 'तस्मान्नुद्विहलः' इति नुट् नुड्विधौ ऋकारैकदेशो रेफो हल्त्वेन गृह्यत इत्युक्तेरिति भावः । श्रनृततुः श्रानृतुः । अनिट्सु श्रस्यापाठात् थलि नित्यमिद् । श्रनर्तिथ श्रानृतथुः श्रनृत । श्रानर्त अत्राहुःन सिच्यन्तरङ्गमस्तीति ज्ञापनार्थं णिश्विप्रहणम् । तेन चिरिणोति जिरिणोत्योर्यङ्लुगन्तानां चिनीप्रभृतीनां च सिचि बहिरङ्गा वृद्धिरेव भवति । अचिरायीत् । श्रजिरायत् । श्रचेचायीत् । श्रनेनायीत् इति । तेनेति । उक्तं च वार्तिक