________________
प्रकरणम् ४३] बालमनोरमा-तत्त्वबोधिनीसहिता। [२५५ शुशुवतुः । 'श्वयतेलिव्यभ्यासलक्षणप्रतिषेधः' (वा ३४६२)। तेन 'लिव्यभ्यासस्य-' (सू २४०० ) इति संप्रसारणं न । शिश्वाय शिवियतुः । अपिता। शयेत् । शूयात् । 'जस्तन्भु-' (सू २२६१) इत्यङ् वा । २४२१ श्वयतेरः। (७-४-१८) श्वयतेरिकारस्थाकारः खादछि। पररूपम् । अश्वत् अश्वताम् अश्वन् । 'विभाषा धेट्रव्योः' (स् २३७५ ) इति च । इयङ् । प्रशिश्वियत् । 'प्रयन्त-' (सू २२६६) इति न वृद्धिः। अश्वयीत् । वृत् । यजादयो वृत्ताः । द्वित्वात्प्राग् 'वचिस्वपि- इति प्राप्तस्य संप्रसारणस्य विकल्पविधिः । तथा च उभयत्र विभाषेयम् । यळशे त्वप्राप्तविभाषेवयम्-शोशूयते । शश्वीयते । तत्र लि एतत्संप्रसारणाभावपक्षे वि इत्यस्य द्वित्वानन्तरमभ्याससंप्रसारणे शुश्वाय इति प्राप्ते
आह श्वयतेर्लिट्यभ्यासलक्षणप्रतिषेध इति । लिट्यभ्याससंप्रसारणस्य प्रतिषेधो वक्तव्य इत्यर्थः । तथा च श्वि इत्यभ्यासस्य संप्रसारणाभावादभ्यासे इनर एव भ्रूयत इत्याह तेनेति । शूयादिति । श्राशीलिङि यासुटः कित्त्वाद् ‘वचि. स्वपि-' इति संप्रसारणे पूर्वरूपे 'अकृत्सार्वधातुकयोः-' इति दीर्घ इति भावः । लुङि विशेषमाह जस्तन्भिवति । तथा च अवि अत् इति स्थिते इयदि प्राप्ते श्वयतेरः। श्वयतेः अः इति च्छेदः । श्वयतेरिति रितपा निर्देशः। विधातोरित्यर्थः । 'अलोऽन्त्यस्य' इत्यन्त्यस्य इकारस्येति लभ्यते । 'ऋदृशोऽडि-' इत्यतः अतीत्यनुवर्तते, तदाह श्वयतेरिकारस्येति । अश्व भत् इति स्थिते सवर्णदीर्घमाशयाह पररूपमिति । आर्धधातुकोपदेश अदन्तत्वाभावाद् न अल्लोपः। अश्वनिति । अश्वः अश्वतम् अश्वत । अश्वम् अश्वाव अश्वाम । अभावपक्षे त्वाह विभाषेति । इयङिति । 'चङि' इति द्वित्वमित्यपि ज्ञेयम् , तदाह अशिश्वियदिति । अश्वतश्चाभावे तु अश्वि इद् इति स्थिते इकारस्य सिचि वृद्धौ सत्याम् आयादेशे अश्वायीदिति प्राप्ते श्राह मयन्तेति न वृद्धिरिति । विग्रहणादिति भावः । न च 'नेटि' इत्येव सिचि वृद्धः निषेधसिद्धेः पृथक विग्रहणं व्यर्थमिति वाच्यम्, 'नेटि' इति निषेधस्य हलन्तलक्षणवृद्धिमात्रविषयत्वात् । न च अश्वि ईत् इति स्थिते सिचि वृद्धयपेक्षया परत्वादन्तरगत्वाच्च इकारस्य गुणे एकारे कृते इगन्तत्वाभावेन सिचि यते । शेश्वीयते । संप्रसारणं नेति । अन्यथा शुश्वायेत्यादि स्यादिति भावः । श्वयतेरः । अलोऽन्त्यपरिभाषालभ्यमाह इकारस्येति । पररूपमिति । अतो लोपस्तु न भवति, आर्धधातुकोपदेशे यदकारान्तमिति व्याख्यातत्वात् । इयडिति । लघूपधगुणापेक्षयान्तरङ्गत्वादिति भावः । अश्वयीदिति । नन्विहान्तरणत्वाद् गुणायादेशयोः कृतयोर्यान्तत्वादेव वृद्धिनिषेधो भवेदिति किमनेन णिश्विप्रहणेनेति चत् ।