________________
प्रकरणम् ४३] बालमनोरमा-तत्त्वबोधिनीसहिता। [२५३ जुहाव जुहुवतुः जुहुवुः । जुहोथ, जुहविथ । जुहुवे । ह्वाता । हूयात् , ह्वासीष्ट । २४१८ लिपिसिचिंतश्च । (३-१-५३) एभ्यश्च्लेरङ् स्यात् । २४१६ आत्मनेपदेष्वन्यतरस्याम् । (३-१-५४) 'मातो लोपः-' (स् २३७२) अह्वत् अह्वताम् अह्नन् । अह्नत । अह्वास्त । ह्वेनः संप्रसारणं तर्हि द्वित्वं बाधित्वा परत्वात्संप्रसारणे सति 'विप्रतिषेधे यद्बाधितं तद्बाधितम्' इति न्यायाद् द्वित्वं न स्यादित्यत आह ततो द्वित्वमिति । संप्रसारणानन्तरं द्वित्वमित्यर्थः, पुनः प्रसङ्गविज्ञानादिति भावः। तथा च णलि आत्त्वे कृते संप्रसारणे पररूपे हु इत्यस्य द्वित्वे 'कुहोश्चुः' इति चुत्वे तस्य जश्त्वे 'अचो ञ्णिति' इति वृद्धौ आवादेशे परिनिष्ठितं रूपमाह जुहावेति । जुहुवतुरिति । अतुसि आत्त्वे पाल्लोपं बाधित्वा अन्तरगत्वाद् 'अभ्यस्तस्य च' इत्यनेन संप्रसारणे 'वार्णादाझं बलीयः' इत्यस्यानित्यतया अन्तरङ्गत्वात्पूर्वरूपे कृते द्वित्वे उवउिति भावः । यद्यपि किति 'वचिस्वपि-' इति संप्रसारणेऽपि सिद्धमिदम् । तथापि अकिति आवश्यकमभ्यस्तस्य चेत्येतद् न्याय्यत्वादिहापि भवतीति बोध्यम् । एवं जुहुवुः । भारद्वाजनियमात्थलि वेट , तदाह जुहोथ, जुहविथेति । जुहुवथुः जुहुव । जुहाव, जुहव जुहुविव जुहुविम, कादिनियमादिट् । जुहुवे जुहुवाते जुहुविरे । जुहुविषे जुहुवाथे जुहुविध्वे । जुहुवे जुहुविवहे जुहुविमहे । हातेति । तासि आत्त्वम् । ह्वास्यति, हास्यते । ह्वयतु, ह्वयताम् । अह्वयत्, अह्वयत । ह्वयेत् , ह्वयेत। हृयादिति । आशीलिङि आत्त्वे यासुटि कित्त्वाद् ‘वचिस्वपि-' इति संप्रसारणे पूर्वरूपे 'अकृत्सार्वधातुकयो:-' इति दीर्घ इति भावः । ह्वासीष्टेति । प्राशीलिङि सीयुटि रूपम् । लुङि विशेषमाह लिपिसिचि । लिपि सिचि ह्वा एषां समाहारद्वन्द्वात्पञ्चम्येकवचनम् । 'च्लेः सिच्' इत्यतः च्लेरिति 'अस्यतिवक्तिख्यातिभ्यः-' इत्यतः अलिति चानुवतेते, तदाह एभ्य इति । इदं परस्मैपदविषयम् , आत्मनेपदे विकल्पविधानात् , तदाह आत्मनेपदेषु । आतो लोप इति । अह्वा अत् इति स्थिते 'आतो लोप इटि च' इत्याल्लोप इत्यर्थः । अह्वदिति । अह्वताम् । अह्वन्नित्यादि। अह्नतेति । संश्चडोः' विषये प्रवर्तते । जुहावयिषति । अहवत् । अभ्यस्तीभविष्यतो ह्वेञ इति । अभ्यस्तनिमित्ते प्रत्यये परे द्विर्वचनात्प्रागेवढेः संप्रसाणमिति फलितोऽर्थः । अभ्यस्तमस्यास्तीति अभ्यस्तः सनादिः, तस्य यो ह्वेञ्तत्प्रकृतिभूतस्तस्येत्यादिव्याख्यानस्य स्वीकारात् । तेन जिह्वायकीयिषतीत्यत्र ह्वेञः संप्रसारणं न भवति, एवुलो द्वित्वनिमित्तत्वाभावात् । अतएव णिचो द्वित्वनिमित्तत्वं नेति हः संप्रसारणमिति योगविभागः क्रियते । एतच्च आकरे स्पष्टम् । लिपिसिचि । लिप उपदेहे ।