________________
२५२ ] सिद्धान्तकौमुदी।
[ भ्वादि. तेन । विव्याय विव्यतुः विव्युः । 'इडत्यति-' (सू २३८४ ) इति नित्यमिट् , विव्ययिथ । विव्याय, विव्यय । विव्ये । व्याता । वीयात् । ग्यासीष्ट। अव्यासीद् , भव्यास्त । ह्वेश् १००८ स्पर्धायां शब्दे च । ह्वयति, यते । २४१७ अभ्यस्तस्य च । (६-१-३३) अभ्यस्तीभविष्यतो ह्वेषः संप्रसारणं स्यात् । ततो द्वित्वम् । तेनाभ्यासे एतत्संप्रसारणविषये कार्यान्तरनिवृत्तिः सिद्धेत्यर्थः । तथा च प्रकृते अभ्यासयकारस्य संप्रसारणे सिद्ध रूपमाह विव्यायेति । विव्यतुः विव्युरिति । 'वचिस्वपि-' इति संप्रसारणे द्वित्वे यणिति भावः । थलि भारद्वाजनियमादिड्विकल्पमाशङ्कयाह इडत्यति।विव्ययिथेति । अकित्त्वादभ्यासस्य संप्रसारणमिति भावः। विव्यथुः विव्य । विव्याय, विव्ययेति । अकित्वादभ्यासस्ट संप्रसारणे णित्त्व. विकल्पाद् वृद्धिविकल्प इति भावः । विव्यिव विव्यिम । विव्ये इति । कित्त्वाद् 'वचिस्वपि-' इति संप्रसारणे पूर्वरूपे वि इत्यस्य द्वित्त्वे यणिति भावः । विव्याते विव्यिरे । विठियषे विव्याथे विव्यिध्वे । विव्ये विव्यिवहे विव्यिमहे । व्यातेति । तासि एकारस्य आत्त्वम् । व्यास्यति, व्यस्यते। व्ययतु, व्ययताम् । अव्ययत् , अव्ययत। व्ययेत् , व्ययेत । वीयादिति । कित्त्वाद् ‘वचिस्वपि-' इति संप्रसारणे पूर्वरूपे 'अकृत्सार्वधातुकयोः-' इति दीर्घः । वीयास्ताम् । व्यासीष्टेति आशीर्लिङि सीयुटि श्रात्त्वम् । अव्यासीदिति । लुङि सिचि आत्त्वे इट्सकोः सिज्लोपः । श्रव्यासिष्टा. मित्यादि । अव्यास्तेति । लुङि आत्मनेपदे अव्ये स् त इति स्थिते आत्त्वमिति भावः । अव्यासातामित्यादि। अव्यास्यत् , अव्यास्यत । ह्वेञ्धातुरनिट। मित्त्वादुभयपदी। शब्दे चेति । प्राकारणार्थ आगच्छेत्यादिशब्दोऽत्र विवक्षितः । ह्वयति, ह्वयते इति । शपि अयादेशः। गलादौ अकिति 'लिट्यभ्यासस्य-' इति अभ्यासस्यैव संप्रसारणे प्राप्ते अभ्यस्तस्य च । 'हः संप्रसारणम्' इत्यनुवर्तते । ह इति कृतात्त्वस्य हे इत्यस्य षष्ठ्यन्तम् । तथा च अभ्यस्तीभूतस्य ह्वेनः संप्रसारणमिति लभ्यते । तथा सति णलि हे अ इति स्थिते द्वित्वे कृते 'उभे अभ्यस्तम्' इत्यभ्यस्तसंज्ञायामुत्तरखण्डस्य संप्रसारणे कृते पूर्वखण्डस्याभ्यासस्य 'न संप्रसारणे संप्रसारणम्' इति निषेधः स्यादित्यत आह अभ्यस्तीभविष्यत इति । ननु यद्यभ्यस्तीभविष्यतो वान्वा यस्तास्यनिट थलि वेड् भवतीत्याशङ्कायामाह नित्यमिडिति । वीयादिति । संप्रसारणे 'अकृत्सार्व-' इति दीर्घः । । । शब्द इति सामान्योक्तावपि आकारणरूपशब्द एवात्र गृह्यत इत्याहुः । तथा च माघे–'यान्तोऽन्यतः प्लुतकृतस्वरमाशु दूरादुबाहुना जुहुविरे मुहुरात्मवर्याः' इति कर्मणि प्रयोगः । 'हः संप्रसारणमभ्यस्तस्य च' इति सूत्रं योगविभागेन व्याचष्टे अभ्यस्तस्य चेति । पूर्वयोगस्तु ‘णौ च