________________
प्रकरणम् ४३] बालमनोरमा-तत्त्वबोधिनीसहिता। [२५१ वविथ, ववाथ । ववे वाता। उयात् , वासीष्ट । प्रवासीत् । व्यञ् १००७ संवरणे । व्ययति, व्ययते । २४१६ न व्यो लिटि । (६-१-४६)व्येन श्रावं न स्यालिटि । वृद्धिः । परमपि हलादिःशेषं बाधित्वा यस्य संप्रसारणम् । उभयेषांग्रहणसामर्थ्यात् । अन्यथा वच्यादीनां ग्रह्मादीनां चानुवृत्त्यैव सिद्धे किं 'वृद्धिरेचि' इति वृद्धौ रूपम् । ववतुरिति । 'आदेचः-' इत्यात्त्वे 'आतो लोपः-'। एवं ववुः । भारद्वाजनियमात्यलि वेट , वेत्रस्तासावनिटकत्वात् तदाह वविथ, ववाथेति । इट्पक्षे अाकेत्त्वेऽपि इट्परत्वादाल्लोप इति भावः। ववथुः क्व । ववौ वविव वविम । क्रादिनिट मादि । ववे इति । ववाते वविरे । वविषे ववाथे बविध्वे । ववे वहिवहे वविमहे ।वातेति । लुटि तासि आत्त्वम् । वास्यति वास्यते। वयतु, वयताम् । अवयत् , अवयत । वये, वयेत । ऊयादिति । श्राशीलिडि यासुटि कित्त्वाद् 'वचिस्वपि-' इति संप्रारणे पूर्वरूपे 'अकृत्सार्वधातुकयोः-' इति दीर्घ इति भावः । वासीष्टेति । प्राशीर्लिकि आत्मनेपदे, सीयुटि आत्त्वे रूपम् । वासीयास्ताम् । अवा. सीदिति । आत्त्वे कृते इट्सको । अवास् इ स् ईदिति स्थिते 'इट ईटि' इति सलोपः। अवासिष्टामित्यादि । आत्मनेपदे, अवास्त अवासातामित्यादि । अवास्यत् , अवास्यत। व्ये संवरण इति । मित्त्वादुभयपदी । अनिट् । व्ययति, व्ययते इति । शपि अयादेशः। णलादौ तु धात्त्वे विव्यौ विव्यतुरित्यादि प्राप्तम् , तत्राह न व्यो लिटि। व्ये इत्यस्य कृतात्त्वस्य षष्ठयन्तस्य व्य इति निर्देशः । आत्त्वमिति । 'आदेच उपदेशे-' इत्यत आदित्य नुवृत्तेरिति भावः । वृद्धिरिति । णलि व्ये अ इति स्थिते 'अचो णिति' इति वृद्धिरित्यर्थः । तथा च व्यै अ इति स्थितम् । ननु तत्र द्वित्वे 'लिटयभ्यासस्य-' इत्यभ्यासे यकारस्य संप्रसारणे पूर्वरूपे उत्तरखण्डस्य आयादेशे विव्याय इति रूपं वक्ष्यति । तदयुक्तम् , संप्रसारणात्प्राक् परत्वाद् हलादिशेषेण यकारस्य निवृत्तौ वकारस्य संप्रसारणे उकारे सति उव्यायेत्यापत्तेरित्यत आह परमपीति । उभयेषामिति । 'लिटयभ्यासस्य-' इति सूत्रे उभयेषामिति ग्रहणसामर्थ्यादित्यर्थः । तदेवोपपादयति अन्यथेति । 'वचिस्वपियजादीनाम्-' इत्यस्य प्रहिज्यावयिधिवष्टिविचतिवृश्वतिपृच्छतिमृज्जतीनाम्-' इत्यस्य च स्वरितत्वादेवात्रानुवृत्त्यैव सिद्धे पुनः 'लिव्यभ्यासस्य-' इत्यत्र उभयेषांग्रहणं पुनर्विधानार्थम् । तथा च वच्यादीनां प्रह्यादीनां चाभ्यासस्य संप्रसारणं स्याल्लिटीति द्विविधानं लब्धम् । तत्र द्वितीयं विधानं नियमार्थम्-उभयेषामभ्यासस्य संप्रसारणमेव स्यातरदिति । उतम् । उतवान् । न न्यो लिटि । लिटि किम् , व्याता । व्यास्यति। हलादि:शेषं बाधित्वेति । हलादिःशेषे तु वस्य संप्रसारणं स्यादिति भावः। अजन्तोकार