________________
२५० ]
सिद्धान्तकौमुदी। [ भ्वादिस्यालिटि । ऊयतुः उयुः । २४१४ वश्चास्यान्यतरस्यां किति । (६-१-३६) वयो यस्य वो वा स्वास्किति लिटि । अवतुः उवुः । उवयिथ । वयेखासावभावात् थलि नित्यमिट । स्थानिवडावेन भिस्वातङ्। ऊये ऊवे । वयादेशाभावे । २४१५ वेसः। (६-१-४०) वेजो न संप्रसारणं स्यालिटि । ववौ ववतुः ववुः । 'न संप्रसारणे संप्रसारणम्' इति लिङ्गादन्त्यस्य यणः पूर्व संप्रसारणमिति विज्ञानाद्यकारस्य संप्रसारणे प्राप्ते सतीत्यर्थः । लिटि वयो। संप्रसारण नेति । 'न संप्रसारणे संप्रसारणम्' इत्यतः तदनुवृत्तेरिति भावः । तथा च यकारस्य संप्रसारणनिषेधे वकारस्य संप्रसारणमिति भावः, तदाह ऊयतुरिति । वश्चास्य । 'लिटि वयो यः' इत्यनुवर्तते, तदाह वयो यस्येत्यादि । उवयिथेति । अकित्त्वान्न वः । अजन्तत्वादकारवत्त्वाच्च थलि इविकल्पमाशङ्कयाह वयेस्तासावभावात्थलि नित्यमिडिति । वयेलिट्येव विहितत्वेन तासावभावाद् 'अचस्तास्वत्-' इति 'उपदेशेऽत्वतः' इति च इएिनषेधाप्रसक्त्या कादिनियमान्नित्यमिडित्यर्थः । 'यस्तासावस्ति नित्यानिट च' इति भाष्यम्। ऊयथुः, ऊवधुः ऊय, ऊव । उवाय, उवय ऊयिव, ऊविव ऊयिम, ऊविम। ननु वयेर मित्त्वात् कथमुभयपदित्वमित्यत आह स्थानिवद्भावेनेति । ऊये, ऊव इति । 'वश्चास्यान्यतरस्याम्-' इति वत्वविकल्पः वत्वाभावे 'लिटि वयो यः' इति यकारस्य संप्रसारणनिषेधः । वकारस्य 'अहिज्या-' इ ते 'वचिस्वपि-' इति वा संप्रसारणम् । ऊयाते ऊयिरे । ऊयिषे ऊयाथे ऊयिध्वे । ऊये ऊयिवहे ऊयिमहे। क्रादिनियमादिट् । एवम् ऊवाते ऊविरे इत्यादि । वयादेशाभाव इति । यजादित्वाद् 'लिट्यभ्यासस्य-' इति 'वचिस्वपि-' इति च संप्रसारणे प्राप्त सतीति शेषः। वेजः। 'लिटि वयो यः' इत्यतो लिटोति 'न संप्रसारणे संप्रसारणम्' इत्यतो न संप्रसारणमिति चानुवर्तते, तदाह वेत्रो नेति । अत्र कितीति नानुवर्तते, तदाह ववाविति । णलि संप्रसारणनिषेधे 'आदेच उपदेशे-' इत्यात्त्वे 'आत 'नौ गलः' इत्यौभाये यजादिषु वेशः पाठात् । अतएवाभ्याससंप्रसारणमपि सिद्धम् । वेत्र इति। संप्रसारणनिषेधस्तु 'लिटि वयो यः' इति निषेधारम्भान प्रवर्तते । तस्माद् अहिज्यादिषु वयिप्रहणं स्पष्टार्थमेवेति बोध्यम् । वश्चास्य । अस्येत्यनेन 'लिटि नयो यः' इति परामृश्यते तदाह वयो यस्येति । 'वो वा किति' इत्येव सुवचम् । 'लिटि वयो यः' इति प्रकृतत्वात् । 'उपदशेऽत्वतः' इति निधधमाशङ्कयाह वयस्तासावभावादिति । ननु स्थानिनस्तासौ विद्यमानत्वात् स्थानिवद्भावेन तासौ विद्यमानत्वं सुलभमिति चेत् । अत्राहुः-शास्त्रीयकार्ये हि स्थानिवद्भावो न तु लौकिके । अचस्तास्वदिति निषेधस्य शास्त्रीयत्वेऽपि सोऽत्र जातिदिश्यते । श्रच इत्युकेरल्विधित्वादिति । वेत्रः।लिटि किम् ,