________________
प्रकरणम् ४३] बालमनोरमा-तत्त्वबोधिनीसहिता। [२४६ प्रवासीत् अदात्ताम् । वेञ् १००६ तन्तुसन्ताने । वयति, वयते । २४११ वेञो वयिः। (२-४-४१) वा स्यालिटि । इकार उचारणार्थः। उवाय । २४१२ अहिज्यावयिव्यधिवष्टिविचतिवृश्चतिपृच्छतिभृज्जतीनां ङिति च । (६-१-१६) एषां किति डिति च संप्रसारणं स्यात् । इति यकारस्य प्राप्ते । २४१३ लिटि वयो यः। (६-१-३८) वयो यस्य संप्रसारणं न 'शासिवसि-' इति षत्वमिति भावः । वात्सीदिति । सिचि हलन्तलक्षणवृद्धौ सस्य तकारः। अवात्तामिति । अवस् स् तामिति स्थिते वृद्धौ ‘झलो झलि' इति सलोपे प्रत्ययलक्षणमाश्रित्य सकाराद्यार्धधातुकपरत्वाद् धातुसकारस्य 'स: सि-' इति तकारः। वस्तुतस्तु सिज्लोपस्यासिद्धत्वात् 'सः सि-' इति तकारे सिज्लोप इति बोध्यम् । अवात्सुः । अवात्सीः अवात्तम् अवात्त । अवात्सम् अवात्स्व अवात्स्म । अवत्स्यत् । वेधातुरनिट । मित्त्वादुभयपदी । तन्तुसन्तानः पटनिर्माणार्थ तन्तूनां तिर्यप्रसारणविशेषः। वयति, वयत इति । शपि अयादेशः। वेजो वयिः। शेषपूरणेन सूत्रं व्याचष्टे वा स्याल्लिटीति । 'लिट्यन्यतरस्याम्' इत्यतः अन्यतरस्यामित्यनुवृत्तेरिति भावः । उच्चारणार्थ इति । इकारस्य इत्संज्ञकत्वे तु नुम् स्यादिति भातः । उवायेति । णलि वयादेशे यजादित्वादकिति लिटि परे 'लिट्यभ्यासस्य-' इति वकारस्य संप्रसारण उपधावृद्धिरिति भावः । अत्र यकारस्य तु न संप्रसारणम् , 'लिटि वयो यः' इति तनिषेधस्यानुपदमेव वक्ष्यमाणत्वादिति भावः । यद्यपि णलि वयादेशाभावेऽपि द्वित्वे अभ्यासस्य संप्रसारणे 'प्रचो रिणति' इति वृद्धौ आयादेश उवायेति सिध्यति । तथापि ऊयतुरित्याद्यर्थ वयादेशस्य श्रावश्यकत्वादिहापि वयादेशो न्याय्यत्वादुपन्यस्तः । वे अतुस् इति स्थिते वयादेशे कृते अहिज्या । चकारेण 'वचिखपियजादीनाम्-' इत्यतः कितीति समुच्चीयते । 'ध्यङः संप्रसारणम्-' इत्यतः संप्रसारणम् त्यनुवर्तते, तदाह । एषामित्यादि । अत्र परस्मैपदिप्रह्यादिसाहचर्याद् 'अय वय पय गतौ' इति पठितस्यात्मनेपदिनो वयेन ग्रहणम् । यजादित्वादेव वयेः संप्रसारणे सिद्ध अत्र वयग्रहणं स्पष्टार्थमिति भाष्ये स्पष्टम् । इति यकारस्य प्राप्त इति। ग्रहणमपि कर्तव्यमेवेति । अवात्सीदिति । वदव्रज-' इति वृद्धिः । 'सः सि-' इति तः । 'अस्तिसिच:-'इतीट् । उच्चारणार्थ इति । इत्संज्ञायां तु 'इदितः-' इति नुम् स्यादिति भावः । उवायेति । 'प्राहिज्या-' इत्यत्र वयिप्रहणाद्वेम इति निषेधोऽत्र न प्रवर्तत इत्याहुः । अहिज्यावयि । गृह्णाति । गृह्णीतः । जिनाति । जिनीतः। जीनः । डिति वयेरुदाहरणं नास्ति । किति तु 'वचिखपियजादीनाम्-' इति सिद्धम् ,