________________
प्रकरणम् ४३] बालमनोरमा-तत्त्वबोधिनीसहिता। [२४७ हु व १००३ बीजसन्ताने । बीजसन्तानं क्षेत्रे विकिरणं गर्भाधानं च । अयं छेदनेऽपि । केशान् वपति । उवाप, उपे। वप्ता। उप्यात् , वप्सीष्ट । प्ररयवा. पसीत् । अवन्त । वह १.०४ प्रापणे । उवाह । उवहिथ । 'सहिवहोरोदवस्य' (सु २३५७)। उवोट । उहे। वोढा । वचयति, वच्यते । अवाक्षीत् भवो यजेत् , यजेत । श्राशीलिछि प्राह इज्यादिति । यासुटः कित्त्वाद् ‘वचिस्वपि-' इति संप्रसारणमिति भावः । यक्षीष्टेति। श्राशीलिङि आत्मनेपदे प्रथमैकवचने सीयुटि जस्य षत्वे तस्य क्त्वे सस्य षत्वमिति भावः। अयाक्षीदिति । सिचि हलन्तलक्षणा वृद्धिः । जस्य षः, तस्य कः, सस्य ष इति भावः । अयष्टेति । अयज् स् त इति स्थिते 'झलो झलि' इति सलोपे, जस्य षः, ष्टुत्वेन तकारस्य ट इति भावः । अयक्षाताम् अयक्षत । अयक्ष्यत्, अयक्ष्यत । डु वा बीजसंतान इति । प्ररोहाथ बीजाना क्षेत्रषु प्रक्षेपण इत्यर्थः, तदाह क्षेत्र विकिरणमिति । वपिः प्रकिरणार्थ इति 'सन्यडोः' इत्यत्र भाष्यम् । गर्भाधानं चेति । 'अप्रमत्ता रक्षत तन्तुमेतं मा वः क्षेत्र परबीजानि वाप्सुः' इत्यादौ तथा दर्शनादिति भावः । अयं छेदनेऽपीति । वर्तत इति शेषः । केशान् वपतीति । छिनतीत्यर्थः । अनिडयम् । उवापेति । 'लिव्यभ्यासस्य-' इत्यकित्यभ्यासस्य संप्रसारणमिति भावः । किति तु 'वचिस्वपि-' इति द्वित्वात्प्राक्सं- . प्रसारणे कृते द्वित्वम् । ऊपतुः ऊपुः । उवपिथ, उवप्थ ऊपथुः ऊप । उवाय, उवप ऊपिव ऊपिम । ऊप इति । पाते ऊपिरे । ऊपिषे उपाथे ऊपिध्वे । ऊपे ऊपिवहे ऊपिमहे । वप्तेति । वस्यति, वप्स्यते । वपतु, वपताम् । अवपत् , अवपत । वपेत् वपेत । उप्यादिति । आशिषि यासुटः कित्त्वाद् 'वचिस्वपि-' इति संप्रसारणम् । वपसीष्टेति । सीयुटि रूपम् । प्रायवाप्सीदिति । लुडि परस्मैपदे सिचि हलन्तलक्षणा वृद्धिः । 'नेर्गद- इति णत्वम् । अवाप्ताम् अवाप्सुः। अवत्तेति । आत्मनेपदे लुकि 'झलो झलि' इति सलोपः । अवसाताम् । वह प्रापण इति । अयमनिट् । वहति, वहते । उवाहेति । 'लिव्यभ्यासस्य-' इति अकिति अभ्यासस्य संप्रसारणमिति भावः । किति 'वचिस्वपि-' इति संप्रसारणे कृते द्वित्वम् । ऊहतुः राहुः । भारद्वाजनियमात्थलि वेट , तदाह उवहिथेति । 'न शसदद-' इति निषेधात् ‘थलि च सेटि' इति न भवति । अथ थलि अनिट्पक्षे आह सहियहोरोदवर्णस्येति । सहिवहोरवर्णस्य श्रोत्स्याड्ढलोपे परत इत्यर्थः । 'ढलोपे-' इति दीर्ध बाधित्वा श्रोत्त्वमिति भावः । उवोढेति । उवह् थ इति स्थिते ढत्वधत्वष्टुत्व
१ वस्तुतस्त्विदमसातम् , वहतैस्थलि सम्प्रसारणेन लियानिमित्तादेशादित्वात् 'थलि च-' इत्यस्याप्राप्तः।