________________
२४६ ]
सिद्धान्तकौमुदी। [म्वादि. वयादीनां प्रमादीनां चाभ्यासस्य संप्रसारणं स्यालिटि । इयाज । २४०६ वचिस्वपियजादीनां किति । (६-१-१५) वचिस्वप्योर्यजादीनां च संप्रसारणं स्वास्किति । पुनः प्रसङ्गविज्ञानाद् द्विस्वम् । ईजतुः ईजुः । इयजिथ, इयष्ठ । ईजे । यष्टा । यक्ष्यति, यच्यते । इज्यात् , यदीष्ट । प्रयासीन , अयष्ट । इति सूत्रोपात्ताश्च उभयशब्देन गृह्यन्त, तदाह वच्यादीनां ग्रह्यादीनां चेति । अत्र वच्यादीनामित्यनेन वचिः स्वपिः यजादयश्च विवक्षिताः । 'यज देवपूजा-' इत्यारभ्य 'टु श्री शिव गतिवृद्धयोः' इत्येतत्पर्यन्ता यजादयः, तदुक्तम्-'यजिवपिर्वहिश्चव वसिर्वेन्येन इत्यपि । हृञ् वदिः श्वयतिश्चैव यजाद्याः स्युरिमे नव ॥' इति । तेष्वनन्तर्भावाद्वचिस्वप्योः पृथगग्रहणम् । प्रह्यादीनामित्यनेन तु अहिज्यावयिव्यधिवष्टिविचतिवृश्चतिपृच्छतिभृज्जतयो विवक्षिताः । इयाजेति । अभ्यासयकारस्य संप्रसारणे इकारे 'संप्रसारणाच' इति पूर्वरूपमिति भावः । यज् अतुस् इति स्थिते द्वित्वे अभ्यासयकारस्य संप्रसारणे पूर्वरूपे च इयजतुरिति प्राहे वचिस्वपि । वचिस्वपीति इका निर्देशः। सौत्रः संप्रसारणाभावः। आदिशब्दो यजिनैव संब. ध्यते न तु वचिस्वपिभ्याम् , तथा सति हि वच्यादेः स्वप्यादेर्यजादश्चेत्यर्थः स्यात् । तथा सति पृथक्स्वपिग्रहण व्यर्थ स्यात् , अदादिगणे लुग्विकरण 'वच परिभाषणे' इत्यारभ्य षष्ठस्य "नि प्वप् शये' इत्यस्य वच्यादिग्रहणनेव सिद्धेः, तदाह वचिखप्योर्यजादीनां चेति । ननु यज् अतुस् इति स्थिते द्वित्वात्परत्वात्संप्रसारणे कृते 'विप्रतिषेधे यद्बाधितं तद्बाधितमेव' इति न्यायेन द्वित्वस्य कथं प्राप्तिरित्याशङ्कयाह पुनःप्रसङ्गेति । ईजतुरिति । यज् अतुस् इति स्थिते संप्रसारण पूर्वरूपे च कृते द्वित्वे सवर्णदीर्घ इति भावः । एवं चात्र किति लिटि 'वचिस्वपि-' इति सूत्रम्, अकिति लिटि तु 'लिव्यभ्यासस्य-' इति सूत्रमिति स्थितिः। भार• द्वाजनियमात्थलि वेट। कृते द्वित्वे अकित्त्वाद् ‘वचिस्वपि-' इत्यप्रवृत्तौ 'लिव्यभ्यासस्य-' इत्यभ्यासयकारस्य संप्रसारणम् , तदाह इयजिथ, इयष्ठेति । अनिटपक्षे वश्वादिना जस्य षत्वे ष्टुत्वेन थस्य ठः । ईजथुः ईज । इयाज, इयज ईजिव ईजिम । ईज इति । 'असंयोगात्-' इति कित्त्वाद् 'वचिस्वपि-' इति संप्रसारण कृते द्वित्वे सवर्णदीर्घ इति भावः । ईजाते ईजिरे । क्रादिनियमादिट् । ईजिष ईजाये ईजिच्चे । ईजे ईजिवहे ईजिमहे। यष्टेति । तासि प्रश्चादिना जस्य षत्वे ष्टुत्वेन तकारस्य टः । यक्ष्यति, यक्ष्यत इति । व्रश्चादिना जस्य षत्वे 'षढो:-' इति षस्य कत्वे सस्य षत्वमिति भावः । यजतु, यजताम् । अयजत् , अयजत । लिवीति किम् , विवक्षति । यियक्षति । वचिस्वपि । आगणान्ता यजादयः। यजिर्वपि हिश्चेव वसिर्व व्येन् इत्यपि । हेल्वदी श्वयतिश्चेति यजायाः स्युरिमे नव' ।