________________
प्रकरणम् ४३ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [२४५ ध्यानम् । शशाप, शेपे। भशाप्सीत् , अशप्त । विष १००१ दीप्तौ। त्वेषति, स्वेषते । तिस्विषे । वेष्टा । वेषयति, वेषयते। स्विष्यात् , स्विक्षीष्ट । अस्विक्षत् । अत्विक्षत अस्विक्षाताम् । अस्विक्षन्त । यज १००२ देवपूजासङ्गतिकरणदानेषु । यजति, यजते । २४०८ लिटयभ्यासस्योभयेषाम् । (६-१-१७) स्पष्टम् । अरातामिति । "झलो झलि' इति सलोपः। कुत्वादि पूर्ववत् । अरङ्क्तेति । लुङस्तलि प्रथमपुरुषकवचने 'झलो झलि' इति सलोपे कुत्वादि । शप आक्रोश इति । अनिडयम् । भारद्वाजनियमात्थलि वेट । वमादौ तु कादिनियमादिट् । अशाप्सीदिति। हलन्तलक्षणा वृद्धिः । अशप्तेति । 'झलो झलि' इति सलोपः। अशप्साताम् । विषधातुरनिट । शपि लघूपधगुणः, तदाह त्वेषति, त्वषत इति । तित्वेष तित्विषतुः तित्विषुः । तित्वेषिथ तित्विषथुः तित्विष । तित्वेष तित्विषिव तित्विषिम, क्रादिनियमादि । तित्विषे इति । तित्विषाते तित्विषिरे । तित्विषिषे तित्विषाथे तित्विषिध्वे । तित्विष तित्विषिवहे तित्विषिमहे । त्वेष्टेति । तासि तकारस्य ष्टुत्वम् । त्वेक्ष्यति, त्वेक्ष्यत इति । स्ये कत्वषत्वे । त्वेषतु, त्वेषताम् । अत्वषत् , अत्वेषत। त्वेषेत् , त्वेषेत । त्विष्यादिति। यासुट आशीलिडि कित्त्वान्न लघूपधगुणः । त्विक्षीष्टेति । 'लिङ्सिचावात्मनेपदेषु' इति कित्त्वान्न गुणः । लुङि परस्मैपदे 'शल इगुपधात्-' इति च्लेः क्सः । कित्त्वान्न गुणः, तदाह अत्विक्षदित्यादि। लुङि आत्मनेपदे च्लेः क्सादेशं मत्वा आह अत्विक्षतेति । अत्विक्षन्तेति । अत्विक्ष झ इति स्थिते 'क्सस्याचि' इत्यन्त्यलोपासंभवादतः परत्वाद् 'आत्मनेपदेष्वनतः' इत्यदादेशासंभवादन्तादेशे क्सस्यान्त्यलोपे पररूपे वा रूपमिति भावः । यज देवपूजेति । अनिडयम् । यजति, यजत इति । देवान् पूजयति सङ्गमयति ददाति वेत्यर्थः । णलि द्वित्वादौ तु ययाज इति स्थिते लिट्यभ्यासस्योभयेषाम् । 'व्यङः संप्रसारणम्-' इत्यतः संप्रसारणमित्यनुवर्तते । 'वचिस्वपियजादीनाम्-' इति सूत्रोपात्ताः 'अहिज्यावयि-' कुत्वषत्वे । त्विष दीपौ । अत्विक्षदिति । 'शल इगुपधात्-' इति क्सः । कत्वषत्वे । अत्विक्षातामिति । 'क्सस्याचि' इति लोपः । यज देव-। देवपूजा त्विह देवतो. द्देशेन विधिबोधितो द्रव्यत्यागः। लिट्यभ्यासस्येति । वच्यादयो वचिस्वपियजादयः । प्रह्यादयस्तु 'अहिज्यावयि-' इत्यादयः। यद्यपि प्रहिपृच्छतिभृजतीनामभ्यासस्य संप्रसारणे कृतेऽकृते च विशेषो नास्ति, तथापि पर्जन्यवल्लक्षणं प्रवर्तते । जप्राह । पप्रच्छ । बभ्रज्ज । वृश्चतेस्तु विशेषः, संप्रसारणस्याकरणे वतश्चेत्यत्र वकारस्य संप्रसारणं स्यात् । कृते तु संप्रसारणे 'न संप्रसारणे-' इति निषेधप्रवृत्तिरिति।