________________
प्रकरणम् ४३ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [२४३ विपूर्वः । 'विचिकित्सा तु संशयः' इत्यमरः । अस्थानुदात्तत्वमाश्रित्य चिकित्सते इत्यादि कश्चिदुदाजहार । निवासे तु केतयति । दान ११४ खण्डने । शान ६१५ तेजने । इतो वहत्यन्ताः खरितेतः । दीदासति । दीदासते । शीशांसति । शीशांसते । अर्थविशेषे सन् । अन्यत्र दानयति । शानयति । दु पचष् ६६६ पाके । पचति, पचते । पेचिथ, पपक्थ । पेचे । दिति । अमेक्ष्यत् । कित निवासे रोगापनयने चेति । परस्मैपदिषु पाठाद् अयं परस्मैपदी। अर्थद्वयमात्रमत्र निर्दिष्टम् । अर्थनिर्देशस्य उपलक्षणत्वाद् अर्थान्तरेषु वृत्तिः। तत्र "कतेयाधिप्रतीकारे निग्रहे अपनयने नाशने संशये च' इति निबद्धेष्वर्थेषु 'गुप्तिज्किन्यः सन्' इति सन्विहितः, तदाह चिकित्सतीति । 'सन्यतः' इति इत्त्वे हलादिशेषे अभ्यासचुत्वे चिकित्सेति सनन्तम्, तस्माल्लटि शपि चिकित्सतीति रूपम् अस्य सनः 'धातोः' इति विहितत्वाभावादनार्धधातुकत्वान लघूपधगुणः, नापि इडागम इति प्रागुतम् । चिकित्सांचकारेत्यादि सुगमं जुगुप्सतिवत् । संशय इत्यादि । व्यक्तम् । निवासे विति । व्याधिप्रतीकाराद्यर्थपञ्चकादर्थान्तरे चुरादित्वस्योकत्वादिति भावः । दान खण्डने । शान तेजन इति । तेजनं तीक्ष्णीकरणम् । इत इति । 'दान खण्डने' इत्यारभ्य 'वह प्रापणे' इत्येतत्पर्यन्ताः स्वरितेत इत्यर्थः । तत्र धातुपाठे अर्थनिर्देशस्य उपलक्षणत्वाद्यदा दानधातुरार्जवे शानधातुस्तु निशाने वर्तते, तदा 'मान्वधदान्शान्-' इति सनि, 'सन्योः ' इति द्वित्वे, अभ्यासहखे, तस्य 'सन्यतः' इति इत्त्वे, तस्य 'मान्बध-' इति दीर्घे सति, नकारस्यानुस्वारे, दीदांसशीशांसाभ्यां लटि स्वरितानुबन्धस्य केवलयोरचरितार्थत्वात् , कर्तृगे फले तडि शपि दीदांसते शीशांसते इति रूपम् । परगामिनि तु फले परस्मैपदे तिपि शपि दीदांसति शीशांसति इति रूपम् , तदाह दीदांसत इत्यादि । शीशांसतीति। तीक्ष्णीकरोतीत्यर्थः। अर्थविशेष इति । आर्जवे निशाने चार्थे सनित्यर्थः । अन्यत्रेति । आर्जवनिशानाभ्यामन्यत्र णिजन्तात्परस्मैपदमेवेत्यर्थः । अर्थान्तरे अननुबन्धकाश्चुरादय इत्युक्तरिति भावः। डु पचष् पाक इति । डुः षकारः चकारादकारश्च इत् । खरितेत्त्वादुभयपदी, तदाह पचति, पचत इति । पपाच पेचतुः पेचुः। भारद्वाजनियमात्यलि वेट्, तदाह पेचिथ, पपक्थेति । इट्पटे कितेाधिप्रतीकारादावेव समित्युक्तम् , तदुदाहरति चिकित्सतीति । रोगमपनयतीत्यर्थः । शत्रु चिकित्सति, निगृहातीत्यर्थः । क्षेत्रे तृणं चिकित्सति, अफ्नयति