________________
२४२ ]
सिद्धान्तकौमुदी ।
[ स्वादि
अक्राष्टाम् । अकार्थीत् श्रकाम् अकार्तुः । पछे क्सः, अक्रुक्षत् प्रकृताम् अकृतन् । दह ६३१ भस्मीकरणे । देहिथ, ददग्ध । दग्धा । धषयति । श्रधाक्षीत् मदाग्धाम् अधातुः । मिह १६२ सेचने । मिमेह । मिमेहिथ ! मेढा । मेध्यति । श्रमिचत् । कित १६३ निवासे रोगापनयने च । चिकित्सति । संशये प्रायेण
>
इगुपधात् -' इति लेः क्सादेशे प्राप्ते यह स्पृशमृशेति । श्रकाक्षीदिति । च्लेः क्सादेशाभावे सिचि 'अनुदात्तस्य चर्दुपधस्य -' इत्यमि ऋकारस्य यणि हलन्तलक्षणवृद्धौ 'षढोः कः सि' इत्यनेन षस्य कत्वे सस्य षत्वमिति भावः । अकाक्षदिति । श्रमभावे सिचि वृद्धौ रूपम् । पक्षे क्स इति । च्लेः सिजभावपक्षे 'शल इगुपधात् -' इति क्स इत्यर्थः । अकृक्षदिति । क्से सति कित्त्वाद् गुणाभावे षस्य कः, सस्य ष इति भावः । अक्ष्यत् श्रकर्यत् । दह भस्मीकरण इति । अनिट् । दहति । ददाह देहतुः देहुः । थलि तु भारद्वाजनियमाद्वेडि• त्याह देहिथ, ददग्धेति । इट्पक्षे 'थलि च सेटि' इत्येत्त्वाभ्यासलोपौ । अनिट् पक्षे तु 'दादे:-' इति ह्रस्य घः, 'झषस्तथो:-' इति यस्य धः, घस्य जश्त्वेन ग इति भावः । देहथुः देह । ददाह, ददह देहिव देहिम । दग्धेति । तासि हस्य घः तकारस्य धः, घस्य ग इति भावः । धक्ष्यतीति । हस्य घः, दस्य भष्, घस्य गः, तस्य चर्चेन कः सस्य ष इति भावः । दहतु । दहत् । दहेत् । दयात् । श्रधाक्षीदिति । सिचि हलन्तलक्षणा वृद्धिः । हस्य घः, दस्य भष्, घस्य गः, तस्य कः सस्य ष इति भावः । अदाग्धामिति । सिचि वृद्धिः, हस्य घः, 'झलो झलि' इति सलोपः, 'झषस्वयो:--' इति तकारस्य धः, घस्य ग इति भावः । अधातुरिति । सिचि वृद्धिः हस्य घः, दस्य भष् घस्य गः, तस्य कः, सस्य ष इति भावः । अधाक्षीः प्रदाग्धम् अदाग्ध । अधाक्षम् अधाव अधाम । अधक्ष्यत् । मिह सेचन इति । अनिट् । मेहति । मिमेह मिमिह्तुः मिमिहुः । श्रजन्ताकारवत्त्वाभावात् कादिनिय - मान्नित्यमिट्, तदाह मिमेहिथेति । मिमिहथुः मिमिह । मिमेह मिमिहिव मिमि - हिम । मेदेति । तासि ढत्वधत्वष्टुत्वढलोपाः । मेक्ष्यतीति । हस्य ढः, तस्य कः, सस्य षः । मेहतु । श्रमेहत् । मेहेत् । मियात् । लुङि 'शल इगुपधात् - ' इति क्सः । कित्वान्न गुणः । हस्य ढः, तस्य कः, सस्य षः, तदाह श्रमिक्षकर्ष्टति । 'अनुदात्तस्य च -' इत्यम् वा । धक्ष्यतीति । घत्वषत्वभष्भावाः । अधाक्षीदिति । 'अस्ति सिचः -' इतोट् । वृद्धिः । घत्वादि प्राग्वत् । मिह सेचने । सेचनमिह मिश्रीकरणकं विवक्षितं नत सेचनमात्रम् । 'में मेहनशेफसी' इत्यमरः । कित निवासे ।
,