________________
प्रकरणम् ४३] बालमनोरमा तत्त्वबोधिनीसहिता। [२४१ दंष्ट्राग्यापारः । पृषोदरादित्वादनुनासिकलोपः । अत एव निपातनादित्येके । तेषामप्यत्रैव तात्पर्यम् । अर्थनिर्देशस्याधुनिकत्वात् । 'दंशसञ्ज-' (सू २३६६) इति नलोपः । दशति । ददंशिथ, दर्दछ । दंष्टा । दङ्च्यति । दश्यात् । अदाङ्क्षीत् । कृष ६६० विलेखने । विलेखनमाकर्षणम् । क्रष्टा, कष्टी । ऋच्यति, कय॑ति । 'स्पृशमशकृषतृपदपा ब्लेः सिज्वा वाच्यः' (वा १८२६)। अक्राचीत् दंष्ट्राव्यापार इति । हनुमूलगताः स्थूलदन्ता दंष्ट्राः, तयापारः क्षतक्रियादिरूप इत्यर्थः । ननु दंशधातोर्म्युटि दशनशब्दः । तत्र 'अनिदिताम्-' इति नकारस्य लोपो न संभवति ल्युटः क्ङित्त्वाभावात् । 'दंशसञ्ज-' इत्यपि नस्य लोपो न संभवति, तस्य शप्येव प्रवृत्तेः । तथा च दशन इत्यर्थनिर्देशः कथमित्यत आह पृषोदरादित्वादिति । अत एवेति । दशनशब्दनिर्देशादेव नकारस्य लोप इत्यन्ये मन्यन्त इत्यर्थः । तेषामपीति । निपातनान्नकारलोप इति वदतामपि पृषोदरादिषु निपातनादित्यर्थ एव तात्पर्य न तु धातुपाठे दंश दशने इत्यर्थनिर्देशे इति भावः । विनिगमनाविरहमाशङ्कयाह अर्थनिर्देशस्याधुनिकत्वादिति । सर्वधातुष्वर्थनिर्देशस्य अपाणिनीयत्वादित्यर्थः । क्वचिदेव धातुवर्थनिर्देशः पाणिनीय इति भूधातौ निरूपितम् । अथ दशतीत्यादौ शपः पित्त्वेन अकित्त्वाद् 'अनिदिताम्-' इति नलोपाप्रवृत्तेराह दंशसओति नलोप इति । दशतीति । अनुस्वारस्यासिद्धत्वादिति भावः । 'दंशसञ्ज-' इत्यत्र शपीत्युक्तेरार्धधातुके नलोपो न । संयोगात्परत्वेन लिटः कित्त्वाभावाद् 'अनिदिताम्-' इत्यपि न । ददंश ददंशतुः ददंशुः । भारद्वाजनियमात्थलि वेट , तदाह ददंशिथ ददंष्ठेति । अनिटपक्षे व्रश्चादिना शस्य षः थस्य ष्टुत्वेन ठ इति भावः । दंष्टेति । तासि व्रश्चादिना शस्य षत्वे तकारस्य ष्टुत्वमिति भावः । दक्ष्यतीति । व्रश्चादिना शस्य षत्वे तस्य कत्वे अनुस्वारस्य परसवर्णे डकारे सस्य षत्वमिति भावः । दशतु । श्रदशत्। दशेत् । दश्यादिति । श्राशीलिढि 'अनिदिताम्-' इति नलोप इति भावः । अदाङ्क्षीदिति । सिचि हलन्तलक्षणा वृद्धिः, शस्य षः, तस्य कः, अनुस्वारस्य परसवर्णेन ङः, सस्य षत्वमिति भावः । अदक्ष्यत् । कृष विलेखन इति । अनिडयम् । कर्षति । चकर्ष चकृषतुः चकृषुः । थलि अजन्ताकारवत्त्वाभावात् कादिनियमान्नित्यमिटचकर्षिय चकृषथुः चकृष । चकर्ष चकृषिव चकृषिम, इति सिद्धवत्कृत्याह क्रष्टा, कटैति । 'अनुदात्तस्य च-' इति अम्विकल्पः । तकारस्य 'टुत्वम् । ऋक्ष्यति, कर्व्यतीति । षस्य कत्वे सस्य षः। कर्षतु । अकर्षत् । कषेत् । कृष्यात् । 'शल अदाक्षीदिति । वदव्रज-' इति वृद्धिः । अदाइष्टाम् । अदाक्षुः । क्रष्टा ।