________________
[भ्वादि
२४० ]
सिद्धान्तकौमुदी। (७-२-६५) आभ्यां थल इड् वा । २४०५ सृजिदृशोभल्यमकिति । (६-१-५८) अनयोरमागमः स्याज्झलादावकिति । दद्रष्ठ, ददर्शिथ। द्रष्टा । द्रक्ष्यति । दृश्यात् । इरित्वादङ्वा । २४०६ ऋशोऽङि गुणः । (७-४-१६) ऋवर्णान्तानां दृशेश्च गुणः स्यादङि । अदर्शत् । अङभावे-२४०७ न दृशः। (३-१-४७) दृशश्च्लेः क्सो न। अदानीत् । दंश 8८६ दशने । दशनं ससनिम । कादिनियमादिट् । सङ्केति । तासि जस्य कुत्वेन गकारे तस्य चत्वे सति अस्य निवृत्तौ नस्य डकार इति भावः । सक्ष्यति । सजतु । असजत् । सजेत् । सज्यात् । असातीत् । हलन्तत्वाद् वृद्धिः । असक्ष्यत् । दृशिर प्रेक्षण इति । इरित् । अनिट् च । पश्यतीति । शिति 'पाघ्राध्मा-' इति पश्यादेश इति भावः । ददर्श ददृशतुः ददृशुः । थलि तु कादिनियमान्नित्यमिट् प्राप्तः, अजन्ताकारवत्त्वाभावाद् 'अचस्तास्वत्-' इति 'उपदेशेऽत्वतः' इति निषेधस्य चाप्राप्तेः ऋदन्तत्वाभावेन भारद्वाजनियमस्याप्रसक्तः। तत्राह विभाषा सृजि । पञ्चम्यर्थे षष्ठी । 'गमेरिट्-' इत्यत इडिति 'अचस्तास्वत्-' इत्यतः थलीति चानुवर्तते, तदाह आभ्यामिति । इडभावपक्ष 'अनुदात्तस्य-' इति अमागमविकल्प प्राप्ते सृजिदृशोः। अम् अकिति इति च्छेदः । नि:यार्थमिदम् । दद्रष्ठेति । ददृश् थ इति स्थिते इडभावपक्षे अमागमे ऋकारस्य यणि व्रश्चादिना शस्य षत्वे थस्य ष्टुत्वेन ठ इति भावः । इटपक्षे त्वाह ददर्शिथेति । अझलादित्वादम् नेति भावः । द्रष्टति । तासि अमागमे शस्य षवे तकारस्य ष्टुत्वेन टकार इति भावः । द्रक्ष्यतीति । अमागमे शस्य षत्वे 'षढो.-' इति कत्वे सस्य ष इति भावः। पश्यतु । अपश्यत् । पश्येत् । आशीलिंङि आह दृश्यादिति । अझलादित्वादम् नेति भावः । लुङि विशेषमाह इरित्त्वाद वेति । अत्र अपक्षे गुणनिषेधे प्राप्ते ऋदृशोऽङि । ऋ इत्यङ्गविशेषणत्वात् तदन्तविधिः, तदाह ऋवर्णान्तानामिति । अङभाव इति । अभावपक्षे 'शल इगुपधात्-' इति क्सादेशे प्राप्ते सतीत्यर्थः । न दृशः। 'च्लेः सिच्' इत्यतः च्लेरिति 'शल इगुपधात्-' इत्यतः क्स इति चानुवर्तते, तदाह दृशश्च्लेः क्सो नेति । क्सादेशे तु अदृक्षदिति स्यादिति भावः । अद्राक्षीदिति । सिचि अमागमे ऋकारस्य यणि अकारस्य हलन्तलक्षणवृद्धौ शस्य षत्वे तस्य कत्वे सस्य षत्वमिति भावः। अद्रक्ष्यत् । दंश दशन इति । अयमनिड् नोपधश्च कृतानुस्वार निर्देशः । विभाषा सृजिदृशोः । क्रादिनियमान्नित्ये प्राप्ते विभाषेयम् । सृजिदृशोः । झलि किम् , ससर्ज । ददर्श । अकितीति किम् , सृष्टः । सृष्टवान् । दृष्टः । दृष्टवान् ।